पृष्ठम्:भामहालङ्कारः.pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

| चतुर्थः परिच्छेदः । २७, निरुद्धार्थ मतं व्यर्थे विरुद्ध तूपदिश्यते ।। पूर्वाऽपरार्थव्याघाताद्विपर्ययकरं यथा ॥ ९ ॥ सखि माने प्रिये धेहि लघुतामस्य मा गमः ।। भर्तश्छन्दानुवर्त्तिन्यः प्रेम घ्नन्ति न हि स्त्रियः ॥१०॥ उपासितगुरुत्वावं विजितेन्द्रियशत्रुषु । । श्रेयसे विनयाधानमधुना तिष्ठ केवलम् ॥ ११ ॥ यदाभिन्नार्थमन्योन्यं तदेकार्थे प्रचक्षते ।। पुनरुक्तमिदं प्राहुरन्ये शब्दार्थभेदतः ॥ १२ ॥ न शब्द पुनरुक्तं तु स्थौल्यादुत्रोपवर्यते । कथमाक्षप्तचित्तः सन्नुतमेवाऽभिधास्यते ॥ १३ ॥ भयशोकाभ्यसूयासु हर्षविस्मययोरपि ।। यथाह गच्छ.गच्छेति पुनरुक्तं चे तद्विदुः ॥ १४ ॥ अत्रार्थपुनरुक्तं यत्तदेवैकार्थमिष्यते । उक्तस्यपुनराख्याने कार्यासम्भवतो यथा ॥ १५ ॥ तामुत्कमनसे नूनं करोति ध्वनिरम्भसाम् ।। सौधेषु घनमुक्तानां प्रणालीमुखातिनाम् ॥ १६ ॥ श्रुतेः सामान्यधर्माणां विशेषस्याऽनुदाहतेः ।। अप्रतिष्ठं यदेकत्र तज्ज्ञानं संशयं विदुः ॥ १७ ॥

, १ विरुद्धार्थ ग .. . .

: ३ मग०।। ३ यदबैशाने ( यदेकर वजार्न १)-०