पृष्ठम्:भामहालङ्कारः.pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ चतुर्थः परिच्छेदः॥

अपार्थं व्यर्थमेकार्थं ससंशयमपक्रमम् ।.. | शब्दहीने यतिभ्रष्टे भिन्नवृत्त विसन्धि च ॥ १ ॥ देशकालकलालोकन्यायागमविरोधि च । प्रतिज्ञाहेतुदृष्टान्तहीनं दुष्टं च नेष्यते ॥ २ ॥ अपार्थमित्यपेतार्थं स चार्थः पदंवाक्ययोः । अर्थवान् वर्णसंघातृः सुप्तिङन्तं पदं पुनः ॥ ३ ॥ पदानामेवं संघातः सापेक्षाणां परस्परम् ।। निराकाक्षं च तद्दाक्यमेकवस्तुनिबन्धनम् ॥ ४ ॥ क्रमवृत्तिषु वर्णेषु संघातादि न युज्यते । बुडौ तु सम्भवत्येतद्न्यत्वेऽपि प्रतिक्षणम् ॥ ५ ॥ धीरन्त्यशब्दविषया वृत्तवाहितैस्मृतिः । वाक्यमित्याहुरपरे न शब्दाः क्षणनश्वराः ॥ ६ ॥ अत्रापि बहु वक्तव्यं जायते तत्तु नोदितम् ।। गुरुभिः किं विवादेन यथाप्रकृतमुच्यते ॥ ७॥ समुदायार्थशून्यं यत्तदपार्थकमिष्यते । दाडिमानि दशोऽषपाः षड़िल्यादि यथोदितम् ॥ ८ ॥ १ धीरत्न्यशब्दविषयावृत्तपर्णाहितस्मृतिः।