पृष्ठम्:भामती.djvu/७५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ-४ पा. ३६.७]
[७५१]

“स्वभावस्यापरिचर्यत्वादिति । समारोपितस्य त्वनिर्वचनी यस्य तत्खभावस्य शक्यस्तत्त्वज्ञानेनावरोपः कर्तु” सर्पस्येव रज्जुतत्त्वज्ञानेनेति भावः । भावमिममविद्वान् परिचोदयति। "स्यादेतत् कर्तृत्वभोक्तृत्वकार्यमिति । अप्रकाशितभावो यथोक्तमेव समाधत्ते । “तच्च ने”त । कर्टभोक्तृत्वयोनि मित्तसंबन्धस्य च शक्तिद्वारेण नित्यत्वाद्भविष्यति कदा चि देष समुदाचारो यतः सुखदुःखे भोज्येते इति संभावना तः कुतः कैवल्यनिश्चय इत्यर्थः । भूयो निरस्तमपि मति द्रढिम्ने पुनरुपन्यस्य दूषयति । ‘परस्तादनन्यत्वेपी’ति । शेषमतिरोदितीर्थम् ॥

अप्रतीकालम्बनन्नयतंते बादरायण उभयथ दोषतक्रतुश्च ॥ १५॥

अब्रह्मक्रतवो यान्ति यथा पञ्चशिविद्यथा ।
ब्रह्मलोकं प्रयास्यन्ति प्रतीकोपासकास्तथा ॥

सन्ति द्वि मनो ब्रह्मयुपासीतेत्याद्याः प्रतीकविषया वि द्यास्तदन्तप्यर्चिरादिमार्गेण कार्यब्रह्मोपासकाइव गन्तुमर्द न्यनियमः सर्वासामित्यविशेषेण विद्यान्तरेष्वपि गतेरवधार णात् । न चैष परब्रह्मविदामिव गत्यभव इति । न च ब्रह्मक्रतव एव ब्रह्मलोकभाजो नातऋतव इत्यप्येकान्तः । अ तक्रदृनामपि पश्चानिविदां तत्प्राप्तेः। न चैते न ब्रह्मक्रतवी मनो बनेत्युपासीतेत्यादै । सर्वत्र ब्रह्मानुगमेन तत्कतुत्वस्या पि संभवात् । फलविशेषस्य ब्रह्मलोकप्राप्तावपि उपपत्तेः,

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/७५४&oldid=141827" इत्यस्माद् प्रतिप्राप्तम्