त्मतया हि स्वभावेन घटादयो भावास्तद्विकारा व्याप्ताः । तदभावे न भवन्ति शिपेव वृशत्वाभावइति विकारावयव पक्षयोश्च तइतः सव विकारावयवैः स्थिरत्वादचलत्वाद् ह्मणः संसारलक्षणं गमनं विकारावयवयोरनुपपन्नम् । नहि स्थिरात्मकमस्थिरं भवति । अन्यानन्यत्वेपि चैकस्य विरो धादसंभवतीति भावः । अथान्य एव जीवो ब्रह्मणः । तथा च ब्रह्मण्यसंसरत्यपि जीवस्य संसारः कल्पतइति । एतद्वि कल्प्य दूषयति । "सोणुरि’ति। "मध्यमपरिमाणत्व’इति। मध्यमपरिमाणानां घटादीनामनित्यत्वदर्शनात् । "न मुख्यै कवइति । भेदाभेदयोर्विरोधिनोरेकत्रासंभवाहुद्विव्यपदेश भेदादर्थभेदोऽयुतसिद्धतयोपचारेणभिन्नमुच्यतइत्यमुख्यमस्यै कत्वमित्यर्थः। अपि च जीवानां ब्रह्मावयवत्वपरिणामात्यन्त भेदपक्षेषु तात्विकी संसारितेति मुक्तौ खभावचनाज्जीवानां विनाशप्रसङ्गः । ब्रह्मविवर्तत्वे तु ब्रह्मवैषां खभावः प्रतिबि म्बानामिव बिम्बं तच्चविनाशीति न जीवविनाश इत्याह । "सर्वेष्वेतेष्वि’ति । मतान्तरमुपन्यस्यति दूषयितुम् । "यतु कैश्चिच्जल्प्यते विनैव ब्रह्मज्ञानं नित्यनैमित्तिकान”ति । यथा हि कफनिमित्तो ज्चर उपात्तस्य कफस्य विशोषण दिभिः प्रशये कफान्तरोत्पत्तिनिमित्तदध्यादिवर्जने प्रशान्ते पि न पुनर्भवति । एवं कर्मनिमित्ते बन्ध उपात्तानां क र्मणामुपभोगात् प्रशये प्रशाम्यति । कर्मान्तराणां च बन्ध क्षेतृनामननुष्ठानात्कारणाभावे कार्यानुपपत्तेर्बन्धाभावाखभा वसिद्धो मोश आरोग्यमिवोपात्तदुरितनिवर्हणाय च नित्य
पृष्ठम्:भामती.djvu/७५२
दिखावट