यश इति । 'पूर्ववाक्यविच्छदेने"ति । श्रुतिवाक्ये बलीयसी प्रकरणत् । “सगुणे च ब्रह्मण’ति । प्रशंसार्थमित्यर्थः । चोदयति । "ननु गतस्यापि पारमार्थिको गन्तव्यता दे शन्तरविशिष्टस्ये’ति । न्यग्रोधवानरदृष्टान्त उपपादिनः । परिहरति । "न प्रतिषिद्वसर्वविशेषत्वाष्ट्रह्मण”इति । अय मभिसन्धिः । यथा तथा न्यग्रोधावयवी परिणामवानुपज . नापायधर्मभिः कर्मजैः संयोगविभागैः संयुज्यतामयं पुनः परमात्मा निरस्तनिखिलभेदप्रपञ्चः कूटस्थनित्यो न न्यग्रो धवरसंयोगविभागभाग् भवितुमर्हति । काल्पनिकसंयोगवि भागस्तु काल्पनिकस्यैव कर्यब्रह्मलोकस्योपपद्यते / न प रस्य । शङ्कते । ‘जगदुत्पत्तिस्थितिप्रलयचेतुत्वश्रुतेरि’ति । नह्यत्पत्यादिहेतुभावो ऽपरिणामिनः संभवति तस्मात्परि णमोति । तथा च भाविकमस्योपपद्यते गन्तव्यत्वमित्यर्थः । निराकरोति । “न विशेषनिराकरणश्रुतीनामिति । विशे षनिराकरणं समस्तशोकादिदुःखशमनतया पुरुषार्थफलवत् । अफलं ढत्ययादिविधानम् । तस्मात्फलवतः संनिधावास्नय मानं तदर्थमेवोच्यतइत्युपपत्तिः । तद्वि विजिशासखेति च शुप्तिः । तस्माद्ध्युपपत्तिभ्यां निरस्तसमस्तविशेषबह्वप्रति पादनपरोयमाम्नायो न टपयादिप्रतिपादनपरः । तस्मान्न गत्रिस्ताविकी । अपि चेयं गतिर्न विचार सदसइत्याच । “गतिकल्पनायां चेति । अन्यानन्यत्वाश्रयाववयवविकारप क्षे । अन्ये वात्यन्तम् । अथ कस्मादात्यन्तिकमनन्यत्वं न कल्पतङ्चत आच । “अत्यन्ततादास्य’इति । हृदा
पृष्ठम्:भामती.djvu/७५१
दिखावट