पृष्ठम्:भामती.djvu/७२१

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


[प्र.४ पा. १ .१२]
[भामती]
[७१८]

पूर्वावान्तरव्यापारं किं तदपूर्वमुपरतेपि कमण्यत्र सुखदु खोपभोगात्प्राग् नाविरन्तु(१)मईति । स चि तस्य विनाश वेतुस्तदभावे कथं विनश्येदिति । तस्याकस्मिकत्वप्रसङ्ग शाखव्याकोपाच्चेति । अदत्तफलं चेत्कर्मापूर्वं विनश्यति कर्मण एव फलप्रसवसामर्थबोधकशाखमप्रमाणं भवेत् । न च प्रायश्चित्तमिव ब्रह्मज्ञानमदत्तफलान्यपि कर्मापूर्वाणि क्षि णोतीति साम्प्रतम् । प्रायश्चित्तानामपि तदप्रश्रयधेतुत्वात्त विधानस्य चैनस्विनराधिकारिप्राप्तिमात्रेणोपपत्तावुपात्तदुरितः निबर्हणफलानेपकवायोगात् । अत एव स्मरन्तुि नाभुक्तं क्षीयते कर्मेति । यदि पुनरपेक्षितोपायतात्मा प्रायश्चित्त विधिर्न नियोज्यविशेषप्रतिलम्भमात्रेण निर्घणोतीत्यपेक्षिता काश्यां दोषसंयोगेन श्रवणात्तनिवईणफलः कल्पेत । तथा ऽपि जनस्य तत्संयोगेनाश्रवणान्न दरितनिबर्हणसामध्ये प्रमाणमस्ति । मोशवत्तस्यापि स्वर्गादिफलवद्देशकालनिमि तापेक्षयोपपत्तेः । शास्त्रप्रामाण्यात्संभविष्यति । असाववस्था यस्यामुपभोगेन समस्तकर्मक्षये ब्रह्मा ज्ञानं मोचं प्रसोष्यति। योगीव वा दिवि भुव्यन्तरिक्षे बहूनि शरोरेद्रियाणि निर्माय फलान्युपभुज्यार्धेन योगसामर्थेन योगी कर्माणि क्षपयित्वा मोशी संपत्स्यते। स्थिते चैतक्षिन्नर्थे न्यायबखद्यथा पुष्कर पलाश इत्यादिव्यपदेशो ब्रह्मविद्यास्तुतिमात्रपरतया व्या ख्य इति प्राप्ने, उच्यते । व्याख्यायेतैवं व्यपदेशो यदि कर्मविधिविरोधः स्यान्न त्वयमस्ति । शास्त्रं दि फलोत्पा


(१) विरन्तुमिति-पा० 3 ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/७२१&oldid=141794" इत्यस्माद् प्रतिप्राप्तम्