ऽपि धृत्य गुडत्यागात् । तदेवं इष्टार्थत्वाद्यानोपासनयो स्थान्तर्णतावृत्तिकत्वेन लोकतः१)प्रतीतेरावृत्तिरेवेति सिद्दम्। अधिकरणार्थमुव निरुपाधिब्रह्मविषयत्वमस्याक्षिपति । "अ- याच भवतु नामे"ति । साध्ये ह्यनुभवे प्रत्ययावृत्तिरर्थवती ना साध्ये, नदि ब्रह्मानुभवो ब्रह्मसाशस्कारो नित्यऽएदखभा वाद् ब्रह्मणोतिरिच्यते । तथा च नित्यस्य ब्रह्मणः स्वभावो नित्य एवेति कृतमत्र प्रत्ययावृत्या । तदिदमुक्तमात्म भुसमिति । आक्षेप्तारं प्रति शङ्कते । "सक्छुनाविति । अयमभिसंधिः । न ब्रह्मात्मभृतस्तत्साक्षात्कारो ऽविद्यामूच्छि नत्ति तयां सचनुवृत्तेरविरोधात् । विरोधे वा तस्य नित्य त्वान्न विद्योदीयेत कुत एव तु तेन सहानुवर्तेत । तस्मात्त निवृत्तये आगन्तुकस्तत्साक्षात्कार एषितव्यः । तथा च प्र त्ययानुवृत्ति(२रष्टवती । आक्षेप्ता सर्वपूर्वोक्ताक्षेपेण प्रत्यव तिष्ठते । “नावृत्तावपीति । न खलु ज्येतिष्ठेमवाक्यार्थप्र त्ययः शतशोप्यावर्तमानः साक्षात्कारप्रमाणं स्वविषये जनयति। उत्पन्नस्यापि तादृशो दृष्टव्यभिचारत्वेन प्रातिभवात् । ब्र ह्मात्मत्वप्रतीतिं ब्रह्मात्मसाक्षात्कारम् । पुनः शङ्कते । “न केवलं वाक्यमिति । आक्षेप्ता दूषयति । "तथाप्यावृत्या नर्थक्यमिति । वाक्यं चे द्यत्यपेतं साक्षात्काराय प्रभ घति । तथा सति । कृतमावृत्य । सकृत्प्रवृत्तस्यैव तस्य सोपपत्तिकस्य यावकर्मव्यकरणदिति । पुनः शङ्कते । “श्र- थापि स्यादिति । न युक्तिवाक्ये साक्षात्कारफले प्रत्यक्षस्यैव
(१) छकइति-पा० ३ ।
(२) प्रत्ययावृत्तिरिति-पा० ३ ।