पृष्ठम्:भामती.djvu/७०४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


[भामती]
[अ-३ पा-४ ५२]
[७०१]

साध्यं हि साधनविशशेषाद्विशेषवद् भवति । न च मुक्तिन् ह्णे नित्यखळपावस्थानलक्षणा नित्या सती साध्या भवितु मर्हति । न च । सवासननिःशेषक्लेशकर्माशयप्रचयो विद्या जन्म विशेषवान् येन तद्विशेषान्मोक्षे भवेत् । । विशषयान् न च सावशेषः क्लेशादिप्रक्षयो मोशाय कल्पते । न च चिराचिरोत्पादानुत्पादावन्तरेण विद्यायामपि रूपतो भेदः कश्चिदुपलक्ष्यते तस्या अप्यैकरूपत्वेन श्रुतेः । सगुणायास्तु विद्यायास्तत्तङ्गणावापोद्वापाभ्यां तत्कार्यस्य फलस्योत्कर्षनि कथं युज्येते । न चात्र विद्यात्वं सामान्यते। दृष्टं भवति । आगमतत्प्रभवपूंक्तिबाधितत्वेन कालात्ययापदिष्टत्वात् । त स्मात्तस्या मुक्त्यवस्थाया ऐकरूप्यावभृतेर्मुक्तलक्षणस्य फल स्याविशेषो यक्त इति । इति श्रीवाचस्पतिमिश्रविरचिते शारीरकभगवत्पादभाष्य विभागे भामत्यां तृतीयाध्यायस्य चतुर्थः पादः ॥ अध्यायच समाप्तः ॥

नाभ्यर्थं इह सन्तः स्वयं प्रवृत्ता न चेतरे शक्याः। मत्सरपित्तनिबन्धनमचिकित्स्यमरोचकं येषाम् ॥ शश्च संप्रति निर्विशद्धर्मधना खारज्यसँख्यं वह नेन्द्रः सान्द्र तपःस्थितेषु कथमप्युद्गमभ्येष्यति । यद्वाचस्पतिमिश्रनिर्मितमितव्याख्यानमात्रस्फट हेदान्तार्थविवेकवञ्चितभवाः. खगैर्यमो निस्पृहाः ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/७०४&oldid=141777" इत्यस्माद् प्रतिप्राप्तम्