तयोक्ता यत्रयत्र ब्रह्म श्रूयते तत्रतत्रानुक्ता अपि लभ्यन्ते । संपदामादयखेपासनाप्रयत्नविधिविषया यथाविध्यवतिष्ठन्ते न तु यथावस्खिति सिद्धम् । प्रियशिरस्खादीनां तूपास्यत्व मारोप्य न्यायो दर्शितः । तस्य तु विषयः संपदामादि रुक्तः । मोद(१)नमात्रं मोदः प्रमोदः प्रकृष्ट मोदः ता
विमौ परस्परपेतावुपचयापचयौ ॥१४॥
इन्द्रियेभ्यः परा हथौ इति किमत्र सर्वेषामेवार्थादीनां प रत्वं प्रतिपिपादयिषितम्, श्राही पुरुषस्यैव तत्प्रतिपादनार्थ चेतरेषां परत्वप्रतिपादनम् । तत्र प्रत्येकमर्थादिपरत्वप्र तिपादनश्रुतेः श्रूयमाणातत्तत्परत्वे च संभवति न तत्तदति णक्रमे सर्वेषामेकपरत्वाध्यवसानं न्याय्यम् । न च प्रयोजना सर्वेषामव प्रत्यक परत्वाभिधानस्याध्यान प्रयोजनत्वात् । तत्तदाध्यानानां च प्रयोजनवत्त्वस्मृतेः । त था हि सृतिः ॥
दशा मन्वन्तराणीह तिष्ठन्तीन्द्रियचिन्तकाः ।
भैतिकास्तु शतं पूर्ण सहस्त्रं त्वाभिमानिकाः ॥
बेौङ्का दश सहस्राणि तिष्ठन्ति विगतज्वराः ।
पूर्णे शतसहस्र तु तिष्ठन्यव्यक्तचिन्तकाः ॥
पुरुषं निर्गुणं प्राप्य कालसंख्या न विद्यते । इति
प्रामाणिकस्य वाक्यभेदस्याभ्युपेयत्वात् प्रत्येक तेषामर्था दीनां परत्वपराण्येतानि वाक्यानीति प्राप्ते, उच्यते ।
(१) मोदमात्रमिति-पा. १ ।