इन्द्रियेभ्यः परा शत्रु इत्येष तावत्संदर्भ वस्तुतत्व प्रतिपादनपरः प्रतीयते नाध्यानविधिपरः । सदश्रुनेः । तदत्र यत्प्रत्ययस्य साक्षात्प्रयोजनवत्त्वं दृश्यते तत्प्रत्ययपरत्वं सर्वेषाम् । इष्टं च विष्णोः परमपदशनस्य निखिलानर्थसंसा रकरणाविद्योपशमः । तत्त्वज्ञानोदयस्य विपर्यासोपशमल शणत्वेन तत्रतत्र दर्शनात् । अथादपरत्वप्रत्ययस्य तु न इष्टमस्ति प्रयोजनम् । न च दृष्टे संभवति अदृष्टकल्पना न्या य्या । न च परमपुरुषार्थहेतुपरत्वे संभवति अवान्तरपरुषा र्थतोचिता । तस्मादृष्टप्रयोजनवत्वात्पुरुषपरत्वप्रतिपादनायै यं संदर्भ इति गम्यते । किं चादरादप्ययमेवास्यार्थ इत्या । ‘अपि च परप्रतिषेधेने”ति । नन्वत्रध्यानविधिर्ना स्ति तत्कथमुच्यते आध्यनायेत्यत आह । ‘आध्यानायेति ।
आत्मशब्दाच ॥ १५॥
अनधिगतार्थप्रतिपादनस्वभावत्वात्प्रमाणानां विशेषतश्चाग मस्य पुरुषशब्दवाचस्य चात्मनः खयं श्रुत्वैव दुरधिगमत्वा वधारणत् । वस्तुतश्च दुरधिगमत्वात् । अर्थादीनां च सुगमत्वात् तत्परत्वमेवार्थादिपरत्वाभिधानस्येत्यर्थः । भ्रूते राशयातिशय इवाशयातिशयः । तत्तात्पर्यतेति यावत् । किं च श्रुत्यन्तरापेक्षिताभिधानादप्येवमेवार्थादिपरत्वे तु स्ख रूपेण विवक्षितेनापेक्षितं श्रुतिराचष्टे इत्याच । अपि च स ध्वनः पारमाप्नोति”इति ॥
आत्मगृहीतिरितरवदुत्तरात् ॥१६॥
अतिस्वत्योईि लोकांडष्टिः परमेश्वराधिष्ठिता । परमेश्व