पृष्ठम्:भामती.djvu/६०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ-३ पा. ३१०]
[भामती]
[५६८]

यथा यस्य पर्णमयी जुर्भवति इत्यव्यभिचारितक्रतु समन्वया जुध्दोपस्थापितः क्रतुः । तस्मादुपास्यफलप्रत्यभिज्ञानात्तद व्यभिचारिणः प्रकारभेदस्येदानुक्तस्यापि बुहै। सन्निधानात्प्र कृतपरामर्शिनैर्वकारेण परामर्श युक्त इति सिहं कैपी तकिब्राह्मणगतेन तावदेवंकारेण शक्यते पराम्रष्टुम्। तथाप्य भ्युपेत्यापि धूम इत्याशयवता भाष्यकृतोक्तं "तथापि तद्भि नेव विज्ञाने वाजसनेयेपि ब्राह्मणगतेनैति शुतद्वनि"रिति। कवलस्य श्रुतस्य वनिरितरसहितस्य चाश्रुनस्य कल्पना न चेत्यर्थः । अतिरोदितमन्यत् ।

आनन्दादयः प्रधनस्य ॥ ११ ॥

गुणवदुपासनाविधानस्य वास्तत्रगुणव्याख्यानादिबेकार्थमि दमधिकरणम् । यथैकस्य ब्रह्मणः सम्पदामत्वादयः सत्य कामादयश्च गुणा न सङ्कर्येरन् । एवमानन्दविज्ञानत्वादयो विभुत्वनित्यत्वादिभिर्गुणैः प्रदेशान्तरोक्तैर्न सङ्कर्येरन् । तत्स झरैर्वा सम्पदामत्वादयोपि सत्यकामादिभिः सर्वैर्मुन् । नदि ब्रह्मणो धर्मिणः सत्वे कश्चिद्विशेष इति पूर्वः पक्षः । रावन्तस्तु वास्तववधययवस्तुधमंतया चाव्य चानुष्ठेयतया वस्थाव्यवस्थे व्यवतिष्ठते । वस्तुधमो हि यावद्वस्तु व्यवति ष्ठते । नासावेकत्रोक्तोऽन्यत्रानुक्तो नास्तीति शक्यं व क्तम् । विधेयस्त परुषप्रयत्नतन्त्रः पुरुषप्रयत्नश्च यत्र या वहुणविशिष्ट ब्रह्माणि चोदितः स तावत्येवावतिष्ठते नावि दितमपि गणं गोचरीकर्तुमर्हति । तस्य विधितन्त्रत्वादि धेश्च व्यवस्थानात् । तस्मादानन्दविज्ञानादयो ब्रह्मतत्वात्म

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/६०१&oldid=141636" इत्यस्माद् प्रतिप्राप्तम्