पृष्ठम्:भामती.djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

[ ४५ ]


अपि तु निषिध्यमानक्रियेोन्मुखे नर इत्येव प्रवर्तते । तथा च
सांसारिकइव श्रद्दावगतब्रह्मतत्वेो ऽपि निषेधमतिक्रम्य प्रवर्त
मानः प्रत्यवैतीति न भिन्नकर्मदर्शनाभ्युपगमः । सस्मान्नेोपा
सनायाः कार्यं कर्मापेक्षा । अत एव नेोपासने(१)त्पत्तावपि
निर्विचिकित्सशाब्दानेोत्पत्युत्तरकाखमनधिकारः कर्मणी
त्युक्तम् । तथा च श्रुतिः ।
‘ न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमान
तत्किमिदानीमनुपयेग एव सर्वथेच कर्मणाम् । तथा च
'विविदिषन्ति यज्ञेनेत्याद्याः श्रुतयेो विरुद्येरन् । न । श्रा
रादुपकारकत्वात् कर्मणां यज्ञादीनाम् । तथाहि । ‘समे
तमात्मानं वेदानुवचनेन' नित्यस्वाध्यायेन ‘ब्राह्मणा विवि
द्विषन्ति' वेदितुमिच्छन्ति, न तु विदन्ति, वस्तुतः प्रधान
स्यापि वेदनस्य प्रकृत्यर्थतया शब्दते गुणत्वादिच्छायाश्च
प्रत्ययार्थतया प्राधान्यात् । प्रधानेन न च कार्यसंप्रत्ययात् ।
नछि राजपुरुषमानयेत्युक्ते वस्तुतः प्रधानभपि राजा पुरुष
विशेषणतया शब्दत उपसर्जनमानीयते ऽपि तु पुरुष एव ।
शब्दतस्तस्य प्राधान्यात् । एवं वेदानुवचनखेव यशस्यापी
छासाधनतया विधानम । एवं तपसे ऽनाशकस्य कामान
एनमेव सपे, चितमितमेधाशिनेा हि ब्रह्मणि विविद्दिषा
भवति, न तु सर्वथा ऽनश्रुने, मरणात् (२)। नापि चान्द्राय
णादितपःशीखस्य । धातुवैषम्यापत्तेः । एतानि च नित्यान्यु
पात्तदुरितनिबर्चणेन पुरुषं संस्कुर्वन्ति । तथा च श्रुतिः ।



(१) नेोपासनास्वरूपो-पा०३ ।।
(२) मरणापातात्-पा०१ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५२&oldid=133992" इत्यस्माद् प्रतिप्राप्तम्