नेया इति प्राप्ते , ऽभिधीयते । एष चैव साधु कर्म कारयती त्यादयतावच्छुनयः सर्वव्यापारेषु जन्तूनामीश्वरतन्त्रतामाहुः सदसति बन्धके() न प्रशंसापरतया व्याख्यातुमुचितम् । न च श्रुतिसिद्धस्य कल्पनीयता, येन प्रवर्तकेषु रागादिषु सत्सु तत्कल्पना विरुध्धेत । न चेश्वरतन्त्रत्वे धर्मएव ज स्तूनां प्रवृत्तेः सुखित्वमेव न वैचित्र्यमिति युक्तम् । यद्यप्य यमीश्वरो वीतरागस्तथापि पूर्वपूर्वजन्तुः कर्मापेक्षया जन्तू न् धर्माधर्मयोः प्रवर्तयन् न दोषपक्षपाताभ्यां विषमो नापि निर्गुणः । न च कर्मप्रचयस्यादिस्यनादित्वात्संसारस्य । न चेश्वरतन्त्रस्य कृतं विधिनिषेधाभ्यामिति सांप्रतम् । न शीश्वरः प्रबलतरपवन इव जन्तून् प्रवर्तयत्यपि तु तच्चैतन्य मनुरुध्यमानो रागाद्युपचारमुखेनैवं चेष्टानिष्टप्राप्तिपरिज्ञा रार्थिनो विधिनिषेधावर्थवन्तैौ भवतः। तदनेनाभिसंधिनो क्तं "परायत्तेपि चि कर्तृत्वे करोत्येव जोवइति । त स्याद्विधिनिषेधशास्त्रविरोधाल्लोकस्य स्थूलदर्शित्वात् एष चैव साधु कर्म कारयनत्यादि श्रुतेः
‘अज्ञो जन्तुरनीशोयमात्मनः सुखदुःखयोः ।
ईश्वरप्रेरितो गच्छेत्खरै ना श्वभ्रमेव वा ’ ॥ इति
जुनेचेश्वरतन्त्राणामेव जन्तूनां कर्तृत्वं, न तु स्वतन्त्र णमिति सिद्धम् । ईश्वर एव विधिनिषेधयोः स्थाने नियु ब्येत यद्विधिनिषेधयोः फलं तदीश्वरेण तत्प्रतिपादितधर्माध र्मनिरपेक्षेण कृतमिति विधिनिषेधयोरानर्थक्यम् । न केवल
(१) बाधके-पा१ १ । २ ।