सति करणान्तरकल्पना” बुदैरुपलभृषाभावात् । तत्कि मिदानीमकरणं बुद्धिरुपलब्धावात्मा चानुपलब्धेत्यत आ च । “बुद्धेः करणत्वाभ्युपगमान्” । अयमभिसंधिः । चैत न्यमुपलब्धिरामखभावो नित्य इति न तत्रात्मनः कर्तृत्व म्, नापि बुद्धेः करणत्वं, किं तु चैतन्यमेव विषयाव च्छिनं वृत्तिरिति चोपलब्धिरिति चाख्यायते । तस्य तु तत्तद्विषयावच्छेदे वृत्तै बुद्धादीनां करणत्वमात्मनश्च तदु पधानेनाहंकारपूर्वकं कर्तृत्वं युज्यतइति ॥
परात्तु तच्छुतेः ॥ ४१ ॥
यदेतज्जीवानामैौपाधिकं कर्हत्वं तत्प्रवर्तनालअणेषु रा गादिषु सत्सु नेश्वरमपरं प्रवर्तकं कल्पयितुमर्दति, अति प्रसङ्गात् । न नेश्वरो वेषपक्षपातरङितो जीवान्साध्वसु धुनि कर्मणि प्रवर्तयितुमर्हति येन धर्माधर्मापेक्षया ज गदैचित्र्यमपपद्यत । स दि खतन्त्रः कारुणिको धर्मएव जन्तून् प्रवर्तयेन्नाधमें, ततश्च तत्प्रेरिता जन्तवः सर्वे धार्मिका एवेति सुखिन एव स्युर्न दुःखिनः । स्खतन्त्रास्तु रागादि युक्ताः प्रवर्तमाना धर्माधर्मप्रचयवन्तो वैचित्यमनुभवन्तीति युक्तम् । एवं च विधिनिषेधयोरर्थवत्वमितरथा तु सर्वथा जीवा अखतन्त्र इतीश्वरेणैव प्रवर्धन्तइति कृतं विधिनिषे धाभ्यांनचि बलवदनिलसलिलैघनुद्यमानं प्रत्युपदेशो ऽर्थ वान् । तस्मादेष वेव साधु कर्म कारयतीत्यादयः शृतयः समस्तविधिनिषेधश्रुतिविरोधालोकविरोधाच्चैश्वर्यप्रशंसापरतया