पृष्ठम्:भामती.djvu/५००

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


[भामती]
[9-२ पा३.४०]
[४६५]

नृखभावोपि क्रियावेशाभावेपि नाकर्ता । तस्मात् स्या भाविकमेवास्य कर्तृत्वमिति प्राप्ते, ऽभिधीयते । नित्यश बुद्वमुक्तखभावं च ब्रह्मा भूयोभूयः श्रूयते तदस्य बुइव मसत्यपि बोइये युक्तं वरिवसत्यपि दाढं दग्धुत्वं, तच्छीलस्य तस्यावगमात् । कर्तृत्वं त्वस्य क्रियावेशादवग न्तव्यम् । न च नित्यदासीनस्य कूटस्थस्य नित्यस्यासकृ ऋतस्य संभवति, तस्य च कदा चिदपि असंसर्गे कथं तच्छक्तियोगो निर्विषयायाः शक्तेरसंभवात् । तथा च यदि तत्सिद्यर्थे तद्विषयः क्रियावेशो ऽभ्युपेयते तथा सति तत्ख भावस्य स्वभावोच्छेदाभावाद् भावनाशप्रसङ्गो न च मुक्त स्यास्ति क्रियायोग इति । क्रियाया दुःखत्वात् । न विग लितसकलदुःखपरमानन्दावस्था मोक्षः स्यादित्याशयवानाच । "न स्वाभाविकं कर्तुत्वमात्मन” इति । अभिप्रायमबुध्वा चो दयति । "ननु स्थितायामपीति । परिहरति । “न नि मित्तानामप”ति । शक्तशयाश्रया शक्तिः खसत्तया ऽवश्यं शक्यमाक्षिपति । तथा च तया ऽक्षिप्तं शक्यं सदैव स्यादि ति भावः । चोदयति । "ननु मोक्षसाधनविधाना’दिति । परिचरति । “ साधनायत्तस्येति । अस्माकं तु न भोक्षः साध्ये, अपि तु ब्रह्मखरूपं तच्च नित्यमिति । उक्त मभिप्रायमाविष्करोति । “अपि च नित्यशएजे”ति । चो दयति । “पर एव तर्हि संसारी”ति । अयमर्थः । पर अंसंसारी तस्याविद्याप्रविलये मुक्ते सर्वे मुच्येरन्नविशेषात् । ततश्च सर्वसंसारोच्छेदप्रसङ्गः । परमादन्यचेत्स बुझादिस

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/५००&oldid=141422" इत्यस्माद् प्रतिप्राप्तम्