त्यतिप्रसङ्गात् । तस्मादनेन समवायिसंबन्धिना सता समवा यिनै घटनीयै, तथा च समवायस्य संबन्धान्तरेण समवायि संबन्धे ऽभ्युपगम्यमाने ऽनवस्था । अथासै संबन्धिभ्यां सं ‘बन्धे न संबन्धान्तरमपेक्षने संबन्धिसंबन्धनपरमार्थवात् । त था दि नासै भिनेपि संबन्धिनिरपेशे निरूप्यते । न च तस्मिन्सति संबन्धिनावसंबन्धिने भवतस्तस्मात्स्वभावादेव समवायः समवायिनेन संबन्धान्तरेणेति नानवस्थेति चो दयति । "नन्विञ्च प्रत्ययग्रह्” इति । परिसरति । ‘ने- त्युच्यते, संयोगोप्येव”मिति । तथाचि संयोगोपि संब न्धिसंबन्धनपरमार्थं, न च भिन्ने ऽपि संयोगिभ्यां विना निरूप्यते, न च तस्मिन्सति संयोगिनावसंयोगिनै भवत इति तुल्यश्चर्चः । यद्युच्येत गुणः संयोगो न च द्रव्यासम वेतो गुणो भवति, न चास्य समवायं विना समवेतत्वं, तस्मात्संयोगस्यास्ति समवाय इति शङ्कामपाकरोति() । । “न च गुणत्वादिति । यद्यसमवाये ऽस्यगुणत्वं भवति कामं भवतु न नः का चितिस्तदिदमुक्तं ‘गुणपरिभा घायाचेति । परमार्थतस्तु द्व्याश्रयत्युक्तम् । तच्च वि नापि समवायं स्खरूपतः संयोगस्योपपद्यते एव । न च कार्यत्वात्समवाय्यसमवायिकारणपेक्षितया संयोगः संयोग समवायीति युक्त,मजसंयोगस्यातथात्वप्रसङ्गात् । अपि च । समवायस्यापि संबन्ध्यधीनसद्भावस्य संबन्धिदस्यैकस्य इ योर्वा विनाशित्वेन विनाशित्वात्कार्यत्वम् । नह्यस्ति सं
(१) शङ्कां निराकरोति-पा० २ ॥