पृष्ठम्:भामती.djvu/३८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.२ पा२ ३]
[भामती]
[३८४]

न तु चेतनसद्भावमात्रेण येनातिप्रल् भवेत् + भूतचैत निकानामपि . चेतनाधिष्ठानादचेतनानां प्रवृत्तिरित्यत्रावि वाद इत्याच । “लोकायतिकानमपीति । स्यादेतत् । देवः खयं चेतनः करचरणदिमान् सुब्यापारेण प्रवर्तयतीति युक्त, न तु तदतिरिक्त कूटस्थनित्यचेतनो व्यापाररहित ज्ञानैकस्वभावः प्रवृत्त्यभावात्प्रवर्तको युक्त इति 'चोदयति । "ननु तवेति। परिहरति। "नायस्कान्तबहूपादिवच्चे"ति। "यथा च रूपादय” इति । सांख्यानां द्वि स्खदेशस्था - पादय इन्द्रियं विकुर्वते, तेन तदिन्द्रियमर्थं प्राप्तमर्था कारेण परिणमतइति स्थितिः । सम्प्रति चोदकः स्वाभिप्रा यमाविष्करोति । “एकवादि”ति । येषामचेतनं चेतनं चा स्ति तेषामेतद्यज्यते वक्तुम् चेतनाधिष्ठितमचेतनं प्रवर्त तइति । यथा योगानामीश्वरवादिनाम् । येषां तु चेतनाति रिक्तं नाख्यदैतवादिनां तेषां प्रवत्यभावे कं प्रति प्रवर्त कत्वं चेतनस्येत्यर्थः । परिहरति । “नाविव”ति । का रणभूतया लयलक्षणया विद्यया प्राक्सर्गापचितेन च वि क्षेपसंस्कारेण यत्प्रत्युपस्थापितं नाम रूपं तदेव माया त दावेशेनास्य चोद्यस्यासकृत्प्रयुक्तवा,देतदुक्तं भवति । नेयं । सृष्टिर्वस्तुसती जेनाईंतिनो वस्तुसतो द्वितीयस्याभावादनयु व्येत । काल्पनिक्यां तु सृष्टावस्ति काल्पनिकं द्वितीयं स यं मायामयम् । यथाहुः । सञ्जयास्तादृशा एव यादृशी भवितव्यता । इति । न चैव ब्रह्मोपादानत्वब्याघातो ब्रह्मण एव मायावेशेन

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३८९&oldid=141099" इत्यस्माद् प्रतिप्राप्तम्