पृष्ठम्:भामती.djvu/३८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामति]
[अ.पा२.२२]
[३८२]

वृत्तिर्डङति । सांख्य आच । “न त्वचेतनसंयक्तस्येति । तुशब्ट औपनिषदपकं व्यावर्तयति । अचेतनाश्रयैव सर्वं प्रवृ तिर्दश्यते न तु चेतनाश्रया का चिदपि । तस्मान्न चेतनस्य जगत्सर्जने प्रवृत्तिरित्यर्थः । अत्रैपनिषदो गूढाभिसंधिः प्र पूर्वकं विटशति । “किं पुनरत्रे”ति। अत्रान्तरे सांख्यो जूते । "‘नन् यस्मिन्निति । न तावच्चेतनः प्रवृत्त्याश्रयतया तत्प्रयोजकतया वा प्रत्यक्षमीच्यते, केवलं प्रवृत्तिस्तदाश्र यश्चाचेतनो देवरथादि प्रत्यक्षेण प्रतीयते, तत्राचेतनस्य प्रवृत्तिस्तन्निमित्तैव न तु चेतननिमित्ता । सद्भावमात्रं तु तत्र चेतनस्य गम्यते रथादिवैलक्षण्याज्जीवकस्य । न च सद्भावमात्रेण कारणत्वसिद्धिः । मा भूदाकाश उत्पत्तिमतां घटादीनां निमित्तकारणमस्ति वि सर्वत्रेति, तदनेन दे यतिरिक्ते सत्यपि चेतने तस्य न प्रवृत्तिं प्रति निमित्तभा वोस्तीत्युक्तम्। यतश्चास्य न प्रवृत्तिहेतुभावोस्ति, अत एव । प्रत्यक्षे देवे सति प्रवृत्तिदर्शनादसति चादर्शनाद्देव स्यैव चैतन्यं लैकायतिकाः प्रतिपन्नास्तथा च न चिदात्म निमित्ता प्रवृत्तिरितिसिद्धम् । तस्मान्न रचनायाः प्रवृत्तेर्वा चि दात्मकारणत्वसिद्धिर्जगत इत्यैपनिषदः परिहरति। “तदभि धीयते । न बूम” इति । न तावत्प्रत्यक्षानुमानागमसिद्धः श रीरो वा परमात्मा वा ऽस्माभिरिदानों साधनीयःकेवलमस्य प्रवृत्तिं प्रति कारणत्वं वक्तव्यम् । तत्र स्ऋतशरीरे वा रया दै वा ऽनधिष्ठिते चेतनेन प्रवृत्तेरदर्शनात् तद्विपर्यये च प्रवृ त्तिदर्शनादन्वयव्यतिरेकाभ्यां चेतनचेतुकत्वं प्रवृत्तेर्निथयने,

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३८८&oldid=141098" इत्यस्माद् प्रतिप्राप्तम्