दिनामरूपबीजसचितं काल्पनिकं सार्वजयं सर्वशक्तित्वं , तत्र पूर्वस्मिन् कल्पे किं नाम तत द्वितीयादसद्ययावुपजा यते, नचि तस्य शहड़बुझ्मुक्तखभावस्य वस्तु सत्कार्यमस्ति, तथा च श्रुतिः "न तस्य कार्यं करणं च विद्यते” इति । उत्तरस्मिंस्तु कल्पे यदि कुलालादिवदत्यन्तव्यतिरिक्तस दकारिकारणाभावादनुपादानत्वं साध्यते, ततः क्षीरादिभि र्यभिचारःतेपि हि बाह्यातच्चनादिकारणानपेक्षा एव कालपरिवासवशेन खत एव परिणामान्तरमासादयन्ति । अथान्तरकारणानपेशत्वं हेतुः क्रियते, तदमिद्वमनिर्वाच्च नामरूपबीजसहायत्वात् । तथा च श्रुतिः । ‘मायां तु प्रकृतिं विद्दि१मायिनं तु महेश्वरम् । इति । कार्यक्रमेण तत्परिंपाकोपि क्रमवानुन्नयः । एकस्मादपि च विचित्रशक्तेः कारणादनेककार्योत्पादो दृश्यते । यथैकस्मा इझेदद्वपाकावेकस्माद्वा कर्मणः संयोगविभागसंस्काराः । यदि तु चेतनत्वे सतीति विशेषणान शेरादिभिर्यभि चारो, दृष्टा वि कुलालादयो बाह्टदाद्यपेक्षाचेतनं च ब्रह्मति, तत्रेदमुपतिष्ठते ।
देवादिवदपि लोके ॥ २५ ॥
लोक्यते ऽनेनेति लोकः शब्द एव तस्मिन् ।
(१) विद्याद्-पा० ३ । ४ ।