पृष्ठम्:भामती.djvu/३७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.२ पा-१.२२]
[३६७]

न इति न तेषां बन्धनागारनिवेशयस्ति क्षतिः का चि न्ममेति न चिताकरणादिदोषापत्तिरिति रागद्वन्तस्तदिद मुक्तम् । “अपि च यदा तत्वमसीति । अपि चेति चः पूर्वीपपत्तिसादित्यं द्योतयति, नोपपत्यन्तरताम् ॥ , स्यादेतत् । यदि ब्रह्मविवर्ते जगत्, दन्त सर्वस्यैव जीववच्चैतन्यप्रसङ्ग इत्यत आह ।

अश्मादिवच तदनुपपत्तिः ॥ २३ ॥

अतिरोहितार्थेन भाष्येण व्याख्यातम् ॥

उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि (१) ॥ २४ ॥

ब्रह्म खल्वैकमद्वितीयतया परानपेकं क्रमेणोत्पद्यमान स्य जगतो विविधविचित्ररूपस्योपादानमुपेयते, तदनुपपन्न म् । नोकरूपान्कार्यभेदो भवितुमर्हति तस्याकस्मिकत्व प्रसङ्गात् । कारणभेदो चि कार्यभेदहेतुः । शरबोजादि भेदाध्यडुरादिकार्यभेददर्शनात् । । न चाक्रमात् कारणा कार्यक्रमो युज्यते । समर्थस्य शेषायोगाद् द्वितीयतया च क्रमवत्तत्सङ्कारिसमवशनानुपपत्तेः । तदिदमुक्तमिदं द्वि लोक"इति । एकैकं हृदादि कारकं, तेषां तु समग्यं साधनम्, ततो चि कार्यं भवत्येवतस्मान्नाद्वितीयं ब्रह्मा जगदुपादानमिति प्राप्त उच्यते । क्षारवड्डि । इदं तावद्भवान्पृ यो व्यचष्ट, किं तात्विकमस्य रूपमपेच्येदमुच्यते उन्नाना


(१) चेत् क्षीरवादि-पा० २ 3 ।४ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३७२&oldid=141078" इत्यस्माद् प्रतिप्राप्तम्