तोनुपपन्न इत्याह । ‘कथमलब्धात्मकमिति । अपि च प्रागुत्पत्तेरसत्वं कार्यस्येति कार्याभावस्य भावेन मर्यादा करणमनुपपन्नमित्याच । "अभावस्य चे"ति । स्यादेतत् । अत्यन्ताभावस्य वन्ध्यासुतस्य मा भून्मर्यादानुपाख्यो चि सः, घटप्रागभावस्य तु भविष्यता घटनेपाख्येयस्यास्ति मर्यादेत्यत आछ । ‘यदि वन्ध्यापुत्रः कारकव्यापारा’- दिति । उक्तमेतदधस्ताद्यथा न जातु घटः पटो भवत्ये वमसदपि सन्न भवतीति । तस्माद्यत्पिण्डे घटस्यासत्वे ऽत्यन्तासवमेवेति । अत्रासत्कार्यवादो चोदयति । ‘नन्वेवं । सती”ति । प्राक् प्रसिद्दमपि कार्यं कदा चित्कारणेन योजयितुं व्यापारोथवान्भवेदित्यत आद । ‘तदनन्यत्वा चेति । परिहरति । 'नैष दोष” इति । उक्तमेतद्यथा भुजङ्गतत्वं न रज्जोर्भिद्यते, रज्जुरेव च तत्, काल्प निकस्तु भेद, एवं वस्तुतः कार्यतत्त्वं न कारणाद्भिद्यते, का रणस्खरूपमेव चि त,दनिर्वाच्यं तु कार्यरूपं भिनमिवाभिन्न मिव चावभासतइति। तदिदमुक्तं "वस्वन्यत्वमिति । ब स्तुतः परमार्थतो ऽन्यत्वं न विशेषदर्शनमात्राद्भवति, सांव्य वदारिके तु कथं चित्तत्वान्यत्वे भवत एवेत्यर्थः । अ नयैव चि हे दिशेष संदर्भ योज्यः। असत्कार्यवादिनं प्रति दूषणान्तरमाच । ‘यस्य पुनरिति । कार्यस्य कारणादभेदे सविषयत्वं कारकव्यापारस्य स्यानन्यथेत्यर्थः । ‘मूल कारणंॐ ब्रह्म । शब्दान्तराच्चेति स्त्रावयवमवतार्य व्या चष्टे । ‘एवं युक्तेः कार्यस्येति । अनिरोचितार्थम् ॥
पृष्ठम्:भामती.djvu/३७०
दिखावट