पृष्ठम्:भामती.djvu/३६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.२ पा-१ .१८]
[३६२]

यंत्वान् कार्यस्य च समवायिकारणाधीनजन्मत्वाद् असम वाये च तदनुपपत्तेः समवायकल्पना संयोगइति वाच्य म् । अजसंयोगे तदभावप्रसङ्गात् । अपि च । संबन्ध्य धीननिरूपणः समवायो यथा संबन्धिइयभेदे न भिद्यते तन्नाशे च न नश्यत्यपि तु नित्य एक एवं संयोगोपि भवेत् ततः को दोषः। अथैतप्रसङ्गभिया संयोगवत्समवायोपि प्र तिसंबन्धिमिथुनं भिद्यते चानित्यवेत्यभ्युपेयते , तथा सति यथैकस्मान्निमित्तकारणादेव जायतएवं संयोगोपि निमित्त कारणादेव जनिष्यतइति समानम् । ‘तादात्म्यप्रतीतेश्चेति । संबन्धावगमो हि संबन्धकल्पनाबीजं न तादात्म्यावगम स्तस्य नानात्वैकाश्रयसंबन्धविरोधादिति । वृत्तिविकल्पेना वयवातिरिक्तमवयविनं दूषयति । “‘कथं च कार्यमिति । “समस्ते"ति । मध्यपरभागयोरर्वाग्भागव्यवहितत्वात् । अथ समस्तावयवव्यासङ्गयपि कतिपयावयवस्थानो यथेष्यत इत्यत आह । ‘नचि बहुत्व’मिति । “अथावयवश” इति । बहुत्वसंख्या वि खरूपेणैव व्यासज्य संख्येयेषु वर्ततइत्ये कतमंसंख्येयाग्रहणेपि न गृह्यते, समस्तव्यासङ्गित्वान्न खूपस्य । अवयवी तु न स्खरूपेणावयवान् व्याप्नोति, अ पि त्ववयवशःतेन यथा वृत्रमवयवैः कुसुमानि व्याप्नुव न समस्तकुसुमग्रहणमपेक्षते कतिपयकुसुमस्थानस्यापि त स्येपलब्धेः,‘एवमवयव्यपीति भावः । निराकरोति । "तदा पी”ति । शङ्कते । ‘गोत्वादिवदिति । निराकरोति । "ने"ति । यद्यपि गोत्वस्य सामान्यस्य विशेषा अनि

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३६८&oldid=141073" इत्यस्माद् प्रतिप्राप्तम्