पृष्ठम्:भामती.djvu/३६७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


[अ.२ पा-१.१७]
[भामती]
[३६२]


असद्व्यपदेशान्नेति चेन्न धर्म

तरेण वाक्यशेषत् ॥ १७ ॥

व्याकृतत्वाव्याकृतत्वे च धर्मावनिर्वचनीयै । दूत्रमेतन्नि गदव्याख्यातंन भाव्यंण व्याख्यातम् ॥

युक्तेः शब्दान्तराच ॥ १८ ॥

"अतिशयवत्त्वात्प्रागवस्थाया’ इति । अतिशयो हि धर्मे । नासत्यतिशयवति कार्यं भवितुमर्हतीति। ननु न कार्यस्या तिशयो नियमहेतुरपि तु कारणस्य शक्तिभेदः, स चास त्यपि कार्यं कारणस्य सर्वात्मन्नेवेत्यत आच । “श- क्तिश्चेति । नान्या कार्यकारणाभ्यां, नाप्यसती क यत्मनेति योजना । अपि च कार्यकारणयोरिति । यद्यपि भावाच्चेपलब्धेरित्यत्रायमर्थ उक्तस्तथापि समवाय दूषणाय पुनरवतारितः । अनभ्युपगम्यमाने च समवायस्य समवायिभ्यां संबन्ध विच्छेदप्रसङ्गो ऽवयवावयविद्रव्यगुणादी न मिथः । नह्यसंबद्ध समवायिभ्य समवायः समवायि नै। संबन्धयेदिति । शङ्कते । "अथ समवायः स्खय“मि- ति । यथा चि संत्त्वयोगाद्व्यगणकर्माणि सन्ति सत्वं तु स्खभावत एव सदिति न सत्त्वान्तरयोगमपेक्षते, तथा समवायः समवायिभ्यां संबन्धं न संबन्धान्तरमपेक्षते, खयं संबन्धरूपत्वादिति, तदेतत्सिद्दन्तान्तरविरोधापादनेन निरा करोति । “संयोगोपि तद्वी”ति । न च संयोगस्य का

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३६७&oldid=141072" इत्यस्माद् प्रतिप्राप्तम्