पृष्ठम्:भामती.djvu/३६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ-२ पा.१.१४]
[भामती]
[३५८]

ज्ञानस्य च प्रतियोगियद्यपेक्षया दुर्बलत्वेन बाध्यत्वं वदन् प्रकृतमुपसंहरति । ‘तस्मादन्येन प्रमाणेनेति । स्यादेतत् । न वयमनेकत्वव्यवहारसिद्ध्यर्थमनेकत्वस्य तात्विकत्वं कल्प यामःकिं तु शैतमेवास्य तात्त्विकत्वमिति चेदयति। "न- नु हृदादी”ति । परिहरति । ‘नेयुच्यत”इति । हृदा दिदृष्टान्तेन चि कथं चित्परिणाम उन्नेये, न च शक्य उन्नेतुमपि, वृत्तिकेत्येव सत्यमिति कारणमात्रसत्यत्ववधा रणेन कार्यस्यानतत्वप्रतिपादनात् सक्षात्कूटस्थनित्यत्वप्रति पादिकास्तु सन्ति सहस्रशः श्रुतय इति न परिणामधर्मता ब्रह्मणः । अथ कूटस्थस्यापि परिणामः कस्मान्न भवतीत्यत आच । ‘नवृकस्येति । शङ्कते । “स्थितिगतिव”दिति । यथैकबाणाश्रये गतिनिवृत्ती एवमेकस्मिन् ब्रह्मणि परिणा मश्च तदभावश्च कैटस्थ्यं भविष्यत इति । निराकरोति । ‘न, कूटस्थस्येति विशेषणदिति । कूटस्थनित्यता दि स दातनी खभावादप्रयुतिः, सा कथं प्रच्युत्या न विरुध्यते । न च धर्मिणे व्यतिरिच्यते धर्मे येन तदुपजनापायेपि धर्मा कूटस्थः स्यात् । भेद ऐकान्तिके गवाश्ववद्दर्मधर्मिभा वाभावात् । बाणादयस्तु परिणामिनः स्थित्या गत्या च परिणमन्त इति । अपि च स्वाध्यायाध्ययनविध्यापादितार्थ वत्त्वस्य वेदाराशेरेकेनापि वर्णनानर्थकेन न भवितव्यं किं पुनरियता जगते ब्रह्मयोनित्वप्रतिपादकेन वाक्यसंदर्भण, तत्र फलवद् ह्रदर्शन(१)समास्नानसंनिधावफलं जगद्योनित्वं


(१) ब्रह्मतत्वज्ञान–पा० २ । ब्रह्मतत्त्वदर्शन-पा० ३ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३६३&oldid=141068" इत्यस्माद् प्रतिप्राप्तम्