समाम्नायमानं तदर्थं सत्तदुपायतया ऽवतिष्ठते नार्थान्त राथमित्याह । ‘न च यथा ब्रह्मण’ इति । अतो न प रिणामपरत्वमस्येत्यर्थः । तदनन्यत्वमित्यस्य स्ह्त्रस्य प्रति ज्ञाविरोधं श्रुतिविरोधं च चेदयति । ‘कूटस्यब्रह्मवादि न” इति । परिहरति । ‘नाविद्यात्मकेति । नाम च रूपं च ते एव बोजं तस्य व्याकरणं कार्यप्रपञ्चस्तदपेक्ष त्वादैश्वर्यस्य । एतदुक्तं भवति । न ताधिकमैश्वर्यं सर्वज्ञ त्वं च ब्रह्मणः किं त्वविद्योपाधिकमिति तदाश्रयं प्रति ज्ञास्त्रं, तत्त्वाश्रयं तु तदनन्यत्वस्त्रं, तेनाविरोधः । सुग ममन्यत् ।
भवे चोपलब्धेः ॥ १५ ॥
कारणस्य भावः सत्ता चेपलम्भश्च तस्मिन् कार्यस्योपल ब्धेर्भावाच्च । एतदुक्तं भवति । विषयपदं विषयविषयि परं, विषयिपदमपि विषयिविषयपरं, तेन कारणेपलम्भ भावयेरुपादेयोपलम्भभावादिति स्ह्त्रार्थः संपद्यते । तथा च प्रभारूपानुविद्बुद्धिबेध्येन चाक्षुषेण न व्यभिचारों, नापि वह्निभावाभावानुविधायिभावाभावेन धूमभेदेनेति सिद्धं भ वति । तत्र यथेक्तहेतोरेकदेशाभिधानेनेपक्रमते भाष्य कारः । "इतश्च = कारणादनन्यत्वं ’ भेदाभावः “कार्यस्य, यत्कारणं”चस्मात्कारणा“झाव एव कारणस्येति । अस्य व्यतिरेकमुखेन गमकत्वमाद । ‘न च नियमेनेति । का कतालीयन्यायेनान्यभावेन्यदुपलभ्यते, न तु नियमेनेत्यर्थः ।