पृष्ठम्:भामती.djvu/३२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ.१ पा-४ ६.२२]
[भामती]
[३१८]

त्यवधारणं तन्मताश्रयणेनैव तस्य शक्यनिरासत्वात् । ऐका न्तिके ह्यवंत आगमन ऽन्यकर्मकरणे केन कं पश्येदिति आत्मनश्च कर्मन्वं विज्ञातारमरे केन विजानीयादिति शक्यं निषेव्रम्। भेदाभेदपक्षे वैकान्तिके वा भेदे सर्वमेतदवैताग्र यमशक्यमित्यवधारणस्यार्थः । न केवलं काशकृत्स्नयदर्श नाश्रयणेन भूतपूर्वगत्या विज्ञाढत्वमपि तु श्रुतिपौर्वापर्यप र्यालोचनयाप्येवमेवेत्याह । “अपि च यत्र हीति । कस्मा त्पुनः काशकृत्स्नस्य मतमास्थयते नेतरेषामाचार्याणामित्य त आच । "दर्शितं तु पुरस्तादिति । काशकृत्स्नयस्य मतस्य श्रुतिप्रबन्धेपन्यासेन पुनः श्रुतिमत्वं स्मृतिमत्वं चोप संचरोपक्रममाच । ‘अतश्चेति । क्क चित्पाठ आतश्चेति । तस्यावश्यं चेत्यर्थः । जननजरामरणभीतये विक्रियास्तासां सर्वासां मदनज इत्यादिना प्रतिषेधः परिणामपक्षे ऽन्यस्य चान्यभावपक्षे ऐकान्तिकाद्वैतप्रतिपादनंपरा एकमेवाद्वितीयमि त्यादये हैतदर्शननिन्दापराश्चान्येसावन्येदमस्मीत्यादथे ज न्मजरादिविक्रियाप्रतिषेधपराश्चैष मदनज इत्यादयः श्रुतय उपरुध्येरन् । अपि च यदि जीवपरमात्मनेपैदाभेदावास्ये यात () ततस्तयोर्भिथे विरोधात्समुच्चयाभावादेकस्य बली यस्खे नात्मनि निरपवादं विज्ञानं जायेत बलीयसैकेन दुर्ब लपक्षावलम्बिनं ज्ञानस्य बाधनात् । अथ त्वयुह्यमाणविशेष तया न बलाबलावधारणंततः संशये सति न सुनिश्चि


(१) वाश्रीयेयाताम्-पा० १ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३२३&oldid=141027" इत्यस्माद् प्रतिप्राप्तम्