पृष्ठम्:भामती.djvu/३२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामती]
[अ.१ पा. ४ द.२२]
[३१९]

तार्थ(१)मात्मनि ज्ञानं भवेत्सुनिश्चितार्थं च ज्ञानं भेदोपायः शूयते 'वेदान्तविज्ञानसुनिश्चितार्था’ इति । तदेतदाद । "अ- न्यथा मुमुक्षुण”मिति । एकत्वमनुपश्यत इति । श्रुतिर्न पुन रेकत्वानेकत्वे अनुपश्यत इति । ननु यदि क्षेत्रज्ञपरमात्म नेरभेदो भाविक, कथं तर्षि व्यपदेशबुद्धिभेदे । क्षेत्रज्ञः प रमात्मति, कथं च नित्यश्श्द्बुद्धमुक्तस्वभावस्य भगवतः संसारित । अविद्याकृतनामरूपे पाधिवशादिति चेत्, कस्ये यमविद्या, न तावज्जीवस्य, तस्य परमात्मने व्यतिरेकाभा वात्नापि परमात्मनस्तस्य विद्युकरसस्याविद्याश्रयत्वानुपप तेः । तदत्र संसारित्वासंसारित्वविद्याविद्यावत्त्वरूपविरुद्द धर्म संसर्गादुद्विव्यपदेशभेदाच्चस्ति जीवेश्वरयेभेदोपि भाविक इत्यत आह । “स्थिते च परमात्मक्षेत्रज्ञात्मैकत्व’इति । न तावद्वेदाभेदावेकत्र भाविकै भवितुमर्हत इति विपश्चि तं प्रथमे पादे । द्वैतदर्शननिन्दया चैकान्तिकाद्वैतप्रतिपा दनपराः पैर्वापर्यालोचनया सर्वे वेदान्ताः प्रतीयन्ते । तत्र यथा बिम्बादवदातात्तात्विके प्रतिबिम्बानामभेदेषि नलम णिकृपाणकाचाद्युपधानभेदा(२)काल्पनिको जीवन भेदे बुद्विव्यपदेशभेदै। वर्नयति, इदं बिम्बमवदातमिमानि च प्रति बिम्बानि नीलोत्पलपलाशश्यामलानि वृत्तदीर्घादिभेदभाजि बहूनीति, एवं परमात्मनः । शङ्खभावाज्जीवानामभेदऐका न्तिकेय्यनिर्वचनीयानाद्यविद्योपधानभेदात्काल्पनिके जीवानां


(१) श्रुति निश्चितार्थ-पा० १ ।

(२) शुपाधिभेदा-पा० १ । २ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/३२४&oldid=141028" इत्यस्माद् प्रतिप्राप्तम्