[ २० ] चाभाणकः । 'अन्धस्येवान्धलग्नस्य विनिपातः पदेपदे नच निलीनमेव विज्ञानमर्थात्मानौ ज्ञापयति चक्षुरीदिवदिति वा- चम् । ज्ञापनं हि ज्ञानजननं, जनितं च ज्ञानं जड सन्नोक्तदू- षणमतिवर्तेतेति । एवमुत्तरोत्तराण्यपि ज्ञानानि जडानीत्यनव- स्था । तस्मादपराधीनप्रकाशा संविदुपेतव्या । तथापि किमा- यातं विषयात्मनोः स्वभावजडयोः । एतदायातं यत्तयोः संविद- जडेति । तत्किं पुत्रः पण्डित इति पितापि पण्डितोस्तु । स्वभाव एष संविदः स्वयंप्रकाशाया यदर्थात्मसंबन्धितेति चेद, हन्त पुत्रस्यापि पण्डितस्य स्वभाव एष यत् पितृसंबन्धितेति समा- नम् । सहार्थात्मप्रकाशन संवित्प्रकाशो न त्वर्थात्मप्रकाशं वि- नेति तस्याः स्वभाव इति चेत् तत्किं संविदो भिन्नौ संविदर्था- त्मप्रकाशौ । तथा च न स्वयंप्रकाशा संविन्न च संविदर्थात्मप्र- काश इति । अथ संविदर्यात्मप्रकाशौन संविदो भिद्येते, संवि- देव तौ । एवं चेत्, यावदुक्तं भवति संविदात्मार्थौ सहेति ता- वदुक्तं भवति संविदर्थात्मप्रकाशौ सद्देति, तथा च न विवकि- तेर्थसिद्धिः । न चातीतानागतार्थगोचरायाः संविदो ऽर्थसह- भावोपि। तद्विषयहानोपादानोपेक्षाबुद्धिजननादर्थसहभाव इति चेन्न। अर्थसंविद् इव हानादिबुद्धीनामपि तद्विषयत्वानुपपत्तेः । चानादिजननादानादिबुद्धीनामर्थविषयत्वम्, अर्थविषयहाना- 'दिबुद्धिजननाचार्थसंविदस्तदिषयत्वमिति चेत् तत् किं देवस्य प्रयत्नवदात्मसंयोगो देहप्रवृत्तिनिवृत्तिहेतुरर्थे इत्यर्थप्रकाशो- स्तु । जापादेवात्मसंयोगो नार्थप्रकाश इति चेत्, नन्वयं स्वयंप्र- काशोपि स्वात्मन्येव खद्योतवत्यकाशः, अर्थे तु जड इत्युपपा- हितम् । न च प्रकाशस्यात्मानो, विषयाः। ते हि विछिनदीर्घ- स्थूलतया ऽनुभूयन्ते । प्रकाशश्चायमान्तरोऽस्थूलो ऽनणुरजस्वी . "
पृष्ठम्:भामती.djvu/२७
दिखावट