________________
[ १८ ] किकानामपीत्याह । “तथा च लोके ऽनुभवः । शुक्तिका हि रजतवदवभासतइति” । न पुना रजतमिदमिति शेषः । स्यादेतत् । अन्यस्यान्यात्मताविभ्रमो लोकसिङ्द्धः, एकस्य त्वभिन्नस्य भेदभ्रमो न दृष्ट इति कुतश्चिदात्मनो ऽभिन्नानां जीवानां भेदविभ्रम इत्यत आह । “एकश्चन्द्रः सद्वितीयवदिति” ॥ पुनरपि चिदात्मन्यध्यासमाक्षिपति । “कथं पुनः प्रत्यगात्मन्यविषये ऽध्यासो विषयतद्धर्माणाम्" । अयमर्थः । चिदात्मा प्रकाशते न वा । न चेत् प्रकाशते, कथमस्मिन्नध्यासो विषयतद्ध र्माणम्। न खल्वप्रतिभासमाने पुरोवर्तिनि द्रव्ये रजतस्य वा तद्धर्माणां वा समारोपः संभवतीति । प्रतिभासे वा न तावदयमात्मा जडो घटादिवत् पराधीनप्रकाश इति युक्तम् । न खलु स एव कर्ता च कर्म च भवति, विरोधात्, परसमवेतक्रियाफलशालि हि कर्म, न च ज्ञानक्रिया परसमवायिनीति कथमस्यां कर्म, न च तदेव स्वं च परं च, विरोधात् । आत्मान्तरसमवायाभ्युपगमे तु ज्ञेयस्यात्मनो ऽनात्मत्वप्रसङ्गः । एवं तस्यतस्येत्यनवस्थाप्रसङ्गः । स्यादेतत् । आत्मा जडोपि सर्वार्थज्ञानेषु भासमानोपि कर्तैव न कर्म, परसमवेतक्रियाफलशालित्वाभावात्। चैत्रवत् । यथा हि चैत्रसमवेतक्रियया चैत्रनगरप्राप्तावुभयसमवेतायामपि क्रियमाणायां नगरस्यैव कर्मता परसमवेतक्रियाफलशालित्वात् । न तु चैत्रस्य क्रियाफलशालिनो ऽपि,' चैत्रसमवायागमनक्रियाया इति । तन्न । श्रुतिविरोधात् । श्रूयते . हि सत्यं ज्ञानमनन्तं ब्रह्मेति। उपपद्यते च । तथाहि । योयमर्थप्रकाशः फलं यस्मिन्नर्थश्च आत्मा च प्रयेते स किं जडः स्वयंप्रकाशो वा । जडश्चेद्विषयात्मानावपि जडाविति कस्मिन् किं प्रकाशतेाविशेषात्, इति प्राप्तमान्ध्यमशेषस्य जगतः । तथा