________________
[ १८ ] न पृष्टो व्याचष्टा, किं शुक्तिकात्वस्येदं रजतमिति ज्ञानं प्रत्यनालम्बनत्वमाहोस्विद् द्रव्यमात्रस्य पुर स्थितस्य सितभास्वरस्य । यदि शुक्तिकात्वस्यानालम्बनत्वम् अहा। उत्तरस्यानालम्बनत्वं ब्रुवाणस्य तवैवानुभवविरोधः । तथाहि । रजतमिदमित्यनुभवन्ननुभविता पुरोवर्ति वस्त्वङ्गुल्यादिना निर्दिशति । दृष्टं च दुष्टानां कारणानामौत्सर्गिककार्यप्रतिबन्धेन कार्यान्तरोपजननसामर्थ्यम्। यथा दावाग्निदग्धानां वेत्रबीजानां कदलीकाण्डजनकत्वम्, भस्मकदुष्टस्य चौदर्यस्य तेजसो बन्नपचनमिति । प्रत्यक्षबाधापहतविषयं च विभ्रमाणां यथार्थत्वानुमानमाभासो हुतवहानुष्णत्वानुमानवत् । यच्चोक्तं मिथ्याप्रत्ययस्य व्यभिचारे सर्वप्रमाणेष्वनाश्वास इति । तद्बोधकत्वेन स्वतः प्रामाण्यं नाव्यभिचारेणेति व्युत्पादयद्भिरस्माभिः परिहतं न्यायकणिकायामिति नेह प्रतन्यते । दिङमात्रं चास्य स्मृतिप्रमोषभङ्गस्योक्तम् । विस्तरस्तु ब्रह्मतत्त्वसमीक्षायामवगन्तव्य इति तदिदमुक्तम् । “अन्ये तु यत्र यदध्यासस्तस्यैव विपरीतधर्मकल्पनमाचक्षतइति"। यत्र शुक्तिकादौ यस्य रजतादेरध्यासस्तस्यैव शुक्तिकादेवर्विपरीतधर्मकल्पनं रजतत्वधर्मकल्पनमिति योजना । ननु सन्तु नाम परीक्षकाणां विप्रतिपत्तयः प्रकृते तु किमायातमित्यत आह । “सर्वथापि त्वन्यस्यान्यधर्मकल्पना न व्यभिचरति” | अन्यस्यान्यधर्मकल्पना ऽनृतता, मा चानिर्वचनीयतेत्यधस्तादुपपादितम् । तेन सर्वेषामेव परीक्षराणां मते ऽन्यस्यान्यधर्मकल्पनानिर्वचनीयता ऽवश्यंभाविनीत्यनिर्वचनीयता सर्वतन्त्र सिद्धान्त इत्यर्थः । अख्यातिवादिभिरकामैरपि सामानाधिकरण्यव्यपदेशप्रवृत्तिनियमस्नेहादिदमभ्युपेयमिति भावः । न केवलमियमनृतता परीक्षकाणां सिद्धा ऽपि तु लौ