पृष्ठम्:भामती.djvu/२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

[ २१ ] ऽदोषश्चेति प्रकाशते । तस्माच्चन्द्रे ऽनुभूयमानइव द्वितीयश्चन्द्रमाः स्वप्रकाशादन्योऽर्थो ऽनिर्वचनीय एवेति युक्तमुत्पश्यामः । न चास्य प्रकाशस्याजानतः स्वलक्षणभेदो ऽनुभूयते। न चानिर्वाचार्थभेदः प्रकाशं निर्वाचं भेत्तुमर्हति । अतिप्रसङ्गात् । न चार्थानामपि परस्परं भेदः समीचीनज्ञानपद्धतिमध्यास्ते इत्युपरिष्टादुपपादयिष्यते । तदयं प्रकाश एव. स्वयंप्रकाश एकः कूटस्थो नित्यो निरंशः प्रत्यगात्मा ऽशक्यनिर्वचनीयेभ्यो देहेन्द्रियादिभ्य आत्मानं प्रतीपं निर्वचनीयमञ्चति जानातीति प्रत्यङ्स चात्मेति प्रत्यगात्मा, स चापराधीनप्रकाशत्वादनंशस्वाच्चाविषयस्तस्मिनध्यासो विषयधर्माणां, देहेन्द्रियादिधर्माणां, कथं, किमाक्षेपे । अयुक्तोयमध्यास इत्याक्षेपः । कस्मादयमयुक्त इत्यत आह ॥ “सर्वो हि पुरोवस्थिते विषये विषयान्तरमध्यस्यति" ॥ एतदुक्तं भवति । यत्पराधीनप्रकाशमंशवच्च तत्सामान्यांशग्रहे कारणदोषवशाच्च विशेषाग्रहे ऽन्यथा प्रकाशते । प्रत्यगात्मा त्वपराधीनप्रकाशतया न स्वज्ञाने कारणान्यपेक्षते । येन तदाश्रयैर्दोषैर्दूष्येत । न चांशवान्, येन क्वचिदस्यांशो गृहीत कश्चिन्न गृहीत, नहि तदेव तदानीमेव तेनैष गृहीतमगृहीतं च संभवतीति न स्वयंप्रकाशपक्षे ऽध्यासः। सदातने ऽप्यप्रकाशे पुरोवस्थितत्वस्यापरोक्षात्वस्याभावान्नाध्यासः । मनहि शुक्तावपुरः स्थितायां रजतमध्यस्यतीदं रजतमिति। तस्मादत्यन्तग्रहे ऽत्यन्ताग्रहे च नाध्यास इति सिद्धम् ॥ स्यादेतत् । अविषयत्वे हि चिदात्मनो नाध्यासो, विषय एव तु चिदात्मा अस्मत्प्रत्ययस्य, तत्कथं नाध्यास इत्यत आह॥ “युवात्प्रत्ययापेतस्य च प्रत्यगात्मनोऽविषयत्वं ब्रवीषि" ॥ विषयत्वेहि चिदात्मनो ऽन्यो विषयी भवेत्। तथा च यो विषयीस एव चि- m

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२८&oldid=334416" इत्यस्माद् प्रतिप्राप्तम्