पृष्ठम्:भामती.djvu/२६७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


[अ-१ पा३ द. २२]
[भामती]
[२६२]

गदादिसिद्धिरपि त्वितियासपुराणलोककरणेभ्यो मन्त्रार्थ वादमूलेभ्यो वा प्रत्यक्षादिमूलेभ्यो वेत्याच । “इतिचासे"ति । ‘‘श्लिष्यते ” । युज्यते । निगदव्याख्यानमन्यत् । तदेवं मन्त्रार्थवादादिसिद्धे देवतावियदैौ गुर्वादिपूजावद्देवतापू जात्मको यागे देवताप्रसादादिद्वारेण सफलो ऽवकल्पते अचेतनस्य तु पूजामप्रतिपाद्यमानस्य तदनुपपत्तिः । न चैवं यज्ञकर्मणे देवतां प्रति गुणभावाद्देवतातः फलोत्पादं या गभावनायाः श्रुतं फलवत्त्वं यागस्य च तां प्रति तत्फलांशं वा प्रति श्रुतं करणत्वं ज्ञातव्यम् । यागभावनाया एव चि फलवत्या यागजश्चणखकरणावान्तरव्यापारत्वाद्देवताभोजनप्र सादादीनां कृषिकर्मणइव तत्तदवान्तरव्यापारस्य सस्याधि गमसाधनत्वम् । आग्नेयादीनामिवोत्पत्तिपरमापूर्वावान्तरव्या पाराणां भवन्मते खर्गसाधनत्वम् । तस्मात्कर्मणे ऽपूर्वावा न्तरव्यापारस्य वा देवताप्रसादवान्तरव्यापारस्य वा फलव त्वात् प्रधानत्वमुभयस्मिन्नपि पक्षे समानम्, न तु देवताया विग्रवादिमत्याः प्राधान्यमिति न धर्ममीमांसायाः स्ख़त्रमपि था शब्दपूर्वत्वाद्यज्ञकर्म प्रधानं गुणत्वे देवताश्रुतिरिति वि रुध्यते । तस्मालिहू देवतानां प्रायेण ब्रह्मविद्याखधिकारः ।

शुगस्य तदनादरश्रवणात्तदाद्रवणासूच्यते हि ॥ ३७ ॥

अवान्तरसंगतिं कुर्वन्नधिकरणतात्पर्यमाह । ‘यथा मनु व्याधिकारेति । शङ्गबीजमात्र । "तत्रे’ति । निर्गुष्टनि है -

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२६७&oldid=140918" इत्यस्माद् पुनः प्राप्तिः