पृष्ठम्:भामती.djvu/२५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[श्र. १ पा.३च्.२८]
[भामती]
[२४६]

नां क्रमभेदात्यद्भेदः स्फुटतरं चकास्ति । तथा च ना क्रमविपरीतक्रमप्रयुक्तानामविशेषः सृतिबुद्दावेकस्यां वर्णा नां क्रमप्रयुक्तानाम् । यथाज,

पदावधारणे पायान् बङ्गनिच्छन्ति सूरयः ।
क्रमन्यनातिरिक्तत्वखरवाक्यश्रुतिसृतीः ॥ इति ।

शेषमतिरोहितार्थम् । दिङ्मात्रमच सूचितं, विस्तरस्तु तत्त्वबिन्दाववगन्तव्य इति । अलं वा नैयायिकैर्विवादेन सन्वनित्या एव वर्णास्तथापि गत्वाद्यवच्छेदेनैव सङ्गतिग्रहा ऽनाद्दिश्य व्यवहारः सेत्यतीत्याह । “अथापि नामेति ॥

अत एव च नित्यत्वम ॥ २९ ॥

ननु प्राच्यामेव मीमांसायां वेदस्य नित्यत्वं सिद्धं तकि पुनः साध्यतइत्यत आच । “खतन्त्रस्य कर्तुरस्मरणादव ि स्थिते वेदस्य नित्यत्व'इति । नक्ह्यनित्याज्जगदुत्पत्तुमर्चति तस्याप्युत्पत्तिमत्वेन सापेशत्वात् । तस्मान्नित्ये वेदेो जग दुत्पत्तिहेतुत्वाद्, ईश्वरवदिति सिद्दमेव नित्यत्वमनेन दृढी कृतम् । शेषमतिरोहितार्थम् ।

समाननामरूपत्वाच्चावृत्तावप्यविरो धो दर्शनात् स्मृतेश्च ॥ ३० ॥

शङ्कापदेोत्तरत्वात् स्त्रस्य शङ्कापदानि पठति “अथापि स्यादिति । अभिधानाभिधेयाविच्छेदे हि संबन्धनित्यत्वं भवेत् । एवमध्यापकाध्येत्परम्यराविच्छेदे वदस्य नित्यत्वं स्या

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२५१&oldid=140884" इत्यस्माद् प्रतिप्राप्तम्