पृष्ठम्:भामती.djvu/२५२

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


[भामती]
[श्र. .३ख.३०]
[२४७]

त् । निरन्चयस्य तु जगतः प्रविलय (१) ऽत्यन्तासतचापूर्व स्येत्यादे ऽभिधानाभिधेयावत्यन्तमुच्छिन्नाविति किमाश्रयः संबन्धः स्यात् । अध्यापंकाध्येतटसंतानविच्छेदे च किमाश्रये। वेदः स्यात् । न च जीवास्तदासनावासिताः सन्तीति वा चयम् । अन्तःकरणाद्युपाधिकल्पिता हि ते तद्विच्छद्रे न स्थातुमर्चन्ति । न च ब्रह्मणस्तद्दासना, तस्य विद्यात्मनः शुद्वखभावस्य तदयागात् । ब्रह्मणश्च द्वष्टादावन्तःकर एणाढ्यस्तदवच्छिन्नाश्च जीवाः प्रादुर्भवन्ते न पूर्वकर्मवि द्यावासनावन्ते भवितुमर्हन्ति, अपूर्वत्वात् । तस्माद्विरुद्धमि दं शब्दार्थसंबन्धवेदनित्यत्वं खष्टिप्रलयाभ्युपगमेनेति । अभि धावयच्हणेनाध्यापकाध्येतारावुत्ता । शङ्कां निराकर्तु खूचम वतारयति । “तत्रेदमभिधीयते समाननामरूपत्वादि’ति । यद्यपि महाप्रलयसमये नान्तःकरणाद्यः समुदाचरदृत्य सन्ति तथापि खकारणे ऽनिर्वाच्यायामविद्यायां लीनाः खू च्मेण शक्तिरूपेण कर्मविक्षेपकाविद्यावासनाभिः सद्दावतिष्ठ न्तएव । तथा च स्मतिः ।

श्रासीदिदं तमेभूितमप्रज्ञातमलशणम् ।
अप्रतकर्यमविज्ञेयं प्रस्तुप्तमिव सर्वतः ॥ इति ।

ते चावधिं प्राप्य परमेश्वरेच्छाप्रचेदिता, यथा कूर्मदेच निलीनान्यङ्गानि तता निस्सरन्ति, यथा वा वर्षापाये प्राप्त घनासारावसेकस्तुचितानि पुनर्मण्डूकदेचभावमनुभवन्ति । त


(१) विप्रलये-पा० १ ॥ ३ ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/२५२&oldid=140885" इत्यस्माद् प्रतिप्राप्तम्