पृष्ठम्:भामती.djvu/१६७

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


[श्र-१पा-१ख.२८]
[भामती]
[१६०]

“न बह्मवाक्यं भवितुमच्इंती'ति । नेष संदर्भों ब्रह्मवाक्य मेव भवितुमर्चतीति, किं तु यथायोगं किं चिदं जीवा कथं , किं चिन्मुख्यप्राणवाक्यं, किं चिद्रह्मवाक्यमित्यर्थः । “प्र- ज्ञासाधनप्राणान्तराश्रयत्वा'दिति । प्राणान्तराणीन्द्रियाणि, तानि चि मख्ये प्राणे प्रतिष्ठितानि, जीवमख्यप्राणयेर न्यतर(१)इत्युपक्रममात्रम् । “उभा'विति । पूर्वपक्षतत्त्वम् । बृह्य तु ध्रुवम् । “न बन्नेति । न बृह्रैवेत्यर्थ । “द- शानां भूतमात्राणामिति । पञ्च शब्दादयः पञ्च पृथिव्या दय इति दश भूत मात्राः । पञ्च बुद्धीन्द्रियाणि पञ्च बु इय इति दश प्रज्ञामावाः । तदेवं खमतेन व्याख्याय प्राचां वृत्तिकृतां मतेन व्याचष्टे । “अथ वेति । पूर्वे प्राणस्येक मुपासनमपरं जीवस्यापरं बझण इत्युपासनचैविधेन वाक्य भेदप्रसङ्गा दूषणमुक्तम्, इच् तु ब्रह्मण एकस्यैवापासावयवि शिष्टस्य विधानान्न वाक्यभेद इत्यभिमानः प्राचां वृत्तिकृताम्। तदेतदालेोचनीयं, कथं न वाक्यभेद इति । युक्त सेोमेन यजेतेत्यादैौ सेोमादिगुणविशिष्टयागविधानं तङ्गुणविशिष्ट स्यापूर्वस्य कर्मणे ऽप्राप्तस्य विधिविषयत्वात् । इच तु स्-ि द्वरूपं बृह्म न विधिविषयेो भवितुमर्चति । अभावार्थत्वात्। भावार्थस्य विधिविषयत्वनियमाद्, वाक्यान्तरेभ्यश्च बृह्यगवग नः प्राप्तत्वात् तदनृद्याप्राप्तापास्सा भावाथा विधयस्तस्य च भेदाद्दिधावृत्तिलक्षणे वाक्यभेदे ऽतिस्फुट इति भाष्यकृता


"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१६७&oldid=137043" इत्यस्माद् प्रतिप्राप्तम्