पृष्ठम्:भामती.djvu/१६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[भामतो]
[अ-१ पा.१.२८]
[१५६]

वगमस्य पदार्थावगमपूर्वकत्वात् । पदार्थानां चेक्तेन मा गेण स्वातन्त्र्यात् । तस्मादुपास्यभेददुपासवैविध्धमिति पूर्वः पक्षः । सिंहान्तस्तु सत्यं पदार्थावगमेपाये वाक्यार्थावगमे न तु पदार्थावगमपराण्येव पदानि, अपि त्वेकवाक्यांद्यावग- मपराणि । तमेव त्वेकं वाक्यार्थे पदार्थावगममन्तरेण न शक्नुवन्ति कर्तुमित्यन्तरा तदर्थमेव तमप्यवगमयन्ति, तेन पदानि विशिटैकार्थावबोधनखरसान्येव बलवद्धकोपनिपा ताननार्थबाधपरतां नीयन्ते । यथाहुः। संभवत्येकवाक्यत्वे वाक्यभेदश्च नेष्यते । इति । तेन यथेपांशयाज्यवाक्ये जामितादोषोपक्रमे त प्रतिसमाधानपसंद्वारे चैकवाक्यत्वाय प्रजापतिरुपांशयष्टव्य इत्यादये न पृथग्विधयः किं त्वर्थवादा इति निर्णीतं त येचापि मामेव विजानइत्युपक्रम्य प्राण ऽस्मि प्रज्ञात्मेत्य ( वा ऽन्ते स एष प्राण । एव प्रज्ञात्मा ऽऽनन्दो ऽजरो ऽष्ठत इत्युपसंश्राव्राण्येकवाक्यत्वावगतै सत्य जीवमुख्यप्राण- लिट्टे अपि तदनुगुणतया नेतव्ये । अन्यथा वाक्यभेदप्रस ङ्गात् । यत्पुनभेददर्शनं ‘सत्र चैताविति तज्ज्ञानक्रिया शक्तिभेदेन बुद्विप्राणयोः प्रत्यगात्मेपाधितयोर्निर्देशः प्रत्य गात्मानमेवोपलक्षयितम् । अत एवोपलच्यस्य प्रत्यात्म सरूपस्याभेदमुपलक्षणाभेदेनोपलक्षयति । "प्राण एव प्रशा त्मेति ।

तस्मादनन्यथासिइब्रुअलिङ्गानुसारतः ।

एकवाक्यबलात्प्राणजोवलिङ्गोपपादनम् ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१६६&oldid=137042" इत्यस्माद् प्रतिप्राप्तम्