पृष्ठम्:भामती.djvu/१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

[८] मिदं शरारादीति । इदमिति च वस्तुतो न प्रतीतितः । लोकव्यवहारो लोकानां व्यवहारः स चायममिति व्यपदेशः । इतिशब्दसूचितश्च शरीराद्यनुकूलं प्रतिकूलं च प्रमेयजातं प्रमाणेन प्रमाय तदुपादानपरिवर्जनादिः । अन्योन्यधर्माश्चाध्यस्यान्योन्यस्मिन् धर्मिणि देहादिधर्मान् जन्ममरणजराव्याध्यादीनात्मनि धर्मिणि अध्यस्तदेहात्मभावे समारोप्य तथा चैतन्यादीनात्मधर्मान् देहादावध्यस्तात्मभावे समारोप्य ममेदं जरामरणपुत्त्रपशुस्वाम्यादीति व्यवहारो व्यपदेश, इतिशब्दसूचितश्च तदनुरूपः प्रवृत्त्यादि। अत्र चाध्यासव्यवहारक्रियाभ्यां यः कर्तोानीतः स समान इति समानकर्तृकत्वेनाध्यस्य व्यवहार इत्युपपन्नम्।पूर्वकालत्वसूचितमध्यासस्य व्यवहारकारणत्वं सूचयति, मिथ्याज्ञाननिमित्तो व्यवहारः । मिथ्याज्ञानमध्यासस्तन्निमितस्तभावाभावानुविधानाद्व्यवहारभावाभावयोरित्यर्थः । तदेवमध्यासस्वरूपं फलं च व्यवहारमुक्ता तस्य निमित्तमाह । इतरेतराविवेकेन । विवेकायग्रहणेत्यर्थः । अथाविवेक एव कस्मान्न भवति, तथा च नाध्यास इत्यत आह । अत्यन्तविविक्तयोर्धर्मधर्मिणोः परमार्थतो धर्मिणोरतादात्म्यं विवेको धर्माणां चासंकीर्णता विवेकः । स्यादेतत् । विविक्तयोर्वस्तुसतोर्भेदाग्रहनिबधनस्तादात्म्यविभ्रमो युज्यते शुक्तेरिव रजताद्भेदाग्रहे रजततादात्म्य विभ्रमः । इह तु परमार्थसतश्चिदात्मना न भिन्न देहाद्यस्ति वस्तुसत्तत्कृतश्चिदात्मनो भेदाग्रहः कुतश्च तादाम्यविभ्रम इत्यत आह । सत्यानृते मिथुनीकृत्य, विवेकग्रहादध्यस्येति योजना । सत्यं चिदात्मा, ऽनृतं बुद्धीन्द्रियदेहादि, ते द्वे धर्मिणी मिथुनीकृत्य, युगलीकृत्येत्यर्थः । न च संवृतिपरमार्थसतोः पारमार्थिकं मिथुनमस्तीत्यभूततद्भावार्थस्य चे प्रयोगः।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१५&oldid=334350" इत्यस्माद् प्रतिप्राप्तम्