पृष्ठम्:भामती.djvu/१४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


[ ७ ]

हि व्यवहारसमये न लेोकसामान्यमतिवर्तन्ते । वच्यत्यनन्तर
मेव हि भगवान् भाष्यकारः । “पपूवादिभिद्याविशेषादिति” ।
बाह्या अप्याङ्गः “शाखचिन्तकाः खल्वेवं विवेचयन्ति न प्रति
पत्तार” इति । तत्पारिशेष्याचिदात्मगोचरमहंकारमहमिचा
प्ति सदनइति प्रयुञ्जाने लेकिकः शरोराद्यभेदग्रहादात्मनः
प्रादेशिकत्वमभिमन्यते नभस् इव घटमणिकमज्ञिकाद्यपाध्यव
च्छेदादिति युक्तमुत्पश्यामः । न चाहंकारप्रामाण्याय देहादि
वदात्मापि प्रादेशिक इति युक्तम् । तदा खख्वयमणुपरिमाणे
वा स्याद्देहपरिमाणे वा। अणुपरिमाणत्वेस्थूलेो ऽदं दीर्घ इति
चन स्यात्। देहपरिमाणत्वे तु सावयवतया दहवदनित्यत्वप्र
सङ्गः । किं चास्मिन् पक्षे ऽवयवसमुदायो वा चेतयेत्प्रत्येक वा
ऽवयवाः । प्रत्येक चेतनत्वपक्षे बहूनां चेतनानां खतन्त्राणामेक
वाक्यताभावाटपर्यायं विरुद्वदियितया शरीरमुन्मथ्येत, च
क्रियं वा प्रसज्येत । समुदायस्य तु चैतन्ययेोगे वृक्षणएकस्मिन्न
वयवे चिदात्मने ऽप्यवयवेो वृक्ण इति न चेतयेत् । न च बह
नामवयवानामविनाभावनियमेो दृष्टो य एवावयवेो विशीर्णस्तदा
तदभावे न चेतयेत् । विज्ञानालम्बनत्वेप्यहंप्रत्ययस्य भ्रान्तत्वं
तदवस्थमेव । तस्य खिरवस्तुनिर्भासत्वादस्थिरत्वाच्च विज्ञाना
नाम् । एतेन स्थूलेो ऽहमन्धेच् गच्छामीत्यादयेप्यध्यास्तया
व्याख्याताः। तर्देवमुक्तक्रमेणाच्प्रत्यये पूतिकूमाण्डीठाते भग
वती श्रुतिरप्रत्यूचं कर्तृत्वभेतृत्वसुखदुःखशोकाद्यात्मत्वमचम
नुभवप्रसञ्जितमात्मनेो निषेडुमईतीति । तदेवं सर्वप्रवादिश्रु
तिस्मृतीतिचासपुराणप्रथितमिथ्याभावस्याइंप्रत्ययस्य खरूप
निमित्तफलैरुपव्याख्यानमन्येोन्यस्मिन्नित्यादि । अत्र चान्यो
न्यस्मिन धर्मिणि श्रामशरीरादावन्योन्यात्मकतामध्यस्याच

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१४&oldid=112106" इत्यस्माद् प्रतिप्राप्तम्