पृष्ठम्:भामती.djvu/१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

[५] स्मृतीतिहासपुराणेषु गीयते । न चैतान्युपक्रमपरामर्शोपसंहारैः क्रियासमभिहारणेगात्मतत्त्वमभिदधति तत्पराणि सन्ति शक्यामि शक्रेणाप्युपचरितार्थानि कर्तुम् । अभ्यासे हि भूयस्त्वमर्थस्य भवति, यथाहो दर्शनीयाहो दर्शनीयेति न न्यूनत्वं प्रागेवोपचरितत्वमिति। अहमनुभवस्तु प्रादेशिकमनेकविधशोकदुःखादिप्रपञ्चोपप्लुतमात्मानमादर्शयन् कथमात्मतत्त्वगोचरः कथं वा ऽनुपप्लवः (१) । न च ज्येष्ठप्रमाणप्रत्यक्षविरोधादाम्नायस्यैव तदपेक्षस्याप्रामाण्यमुपचरितार्थत्वं चेति युक्तम् । तस्यापौरुषेयतया निरस्तसमस्तदोषाशङ्कस्य बोधकतया स्वतःसिद्धप्रमाणभावस्य स्वकार्ये प्रमितावनपेक्षत्वात् । प्रमितावनपेक्षत्वेप्युत्पत्तौ प्रत्यक्षापेक्षत्वात्तविरोधादनुत्पत्तिलक्षणमप्रामाण्यमिति चेन्न । उत्पादकाप्रतिद्वन्दित्वात् । नह्यागमज्ञानं सांव्यवहारिक प्रयक्षस्य प्रामाण्यमुपहन्ति येन कारणभावान्न भवेदपि तु तात्त्विकम् । न च तत्तस्योत्पादकम् । अतात्त्विकप्रमाणभावेभ्योपि सांव्यवहारिकप्रमाणेभ्यस्तत्त्वज्ञानोत्पत्तिदर्शनात् । तथा च वर्णे ह्रस्वदीर्घत्वादयो ऽन्यधर्मा अपि समारोपितास्तत्त्वप्रतिपत्तिहेतवो, नहि लौकिका नाग इति वा नग इति वा पदात् कुञ्जर वा तरूं वा प्रतिपद्यमाना भवन्ति भ्रान्ताः । न चानन्यपरं वाक्यं स्वार्थउपचरितार्थं युक्तम् । उक्त हि "न विधौ परः शब्दार्थ" इति । ज्येष्ठत्वं चानपेक्षितस्य बाध्यत्वे हेतुर्न बाधकत्वे, रजत-. ज्ञानस्य ज्यायसः शुक्तिज्ञानेन कनीयसा बाधदर्शनात् । तदनपबाधने तदपबाधात्मनस्तस्योत्पत्तेरनुत्पत्तेः । दर्शितं च तात्विकप्रमाणभावस्यानपेक्षितत्वम् । तथा च पारमर्षं सूत्रं, “पौर्वपर्ये पूर्वदौर्बल्यं प्रकृतिवत्" (अ० ६ पा० ५) इति । तथा (१) विपर्यासन्यः ।। ा

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१२&oldid=334339" इत्यस्माद् प्रतिप्राप्तम्