पृष्ठम्:भामती.djvu/११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[ ४ ]

नहि जातु कवित्समाचरदृतिनो (१) प्रकाशतमसो परस्परा
त्मतया प्रतिपत्तुमर्हति । तदिदमुक्तमितरेतरभावानुपपत्तावि
ति । इतरेतरभाव इतरेतरत्वं, तादात्म्यमिति यावत् । तस्यानु
पपत्ताविति । स्यादेतत् । मा भूद्धर्मिणेः परस्परभावस्तङ्कर्माणां
तु जद्याचैतन्यनित्यत्वानित्यत्वादीनामितरेतराध्यासेो भविष्य
ति । दृश्यते हि धर्मिणार्विवेकग्रहणेपि तद्भर्मणामध्यासो,
यथा कुसुमाद्भेदेन गृह्यमाणेपि स्फटिकमणावतिखच्छतया ज
पाकुसुमप्रतिबिम्बेङ्गाहिण्यरुणः स्फटिक इत्यारुण्यविभ्रम इ
त्यत उक्तम् । तद्धर्माणामपीति । इतरेतरत्र धर्मिणि धर्माणां
भावो विनिमयस्तस्यानुपपत्तिः। अयमभिसंधिः । रूपवद्वि द्रव्य
मतिस्वच्छतया रूपवते द्रव्यान्तरस्य तद्विवेकेन गृह्यमाणस्यापि
छायां गृह्णीयात् चिदात्मा त्वद्रूपो विषयी न विषयच्छायामुङ्गा
चयितुमर्चति । यथाङ्ग । “ शब्दगन्धरसानां च कीदृशी प्र
तिबिम्बता” इति। तदिह पारिशेष्याद्दिषयविषयिणोरन्येान्यात्म
संभेदेनैव तद्धर्माणामपि परस्परसंभेदेन विनिमयात्मना भवि
तव्यं, तैौ चेद्धर्मिणावत्यन्तविवेकेन गृह्यमाणावसंभिनौ, असं
भिन्नाः सुतरां तयोर्धर्माः स्वाश्रयाभ्यां व्यवधानेन दूरापेतत्वात्,
तदिदमुक्तं सुतरामिति। तद्विपर्ययेणेति।विषयविपर्ययेणेत्यर्थः।
मिथ्याशब्दोऽपन्हववचन: । एतदुक्तं भवति । अध्यासो भेदाग्रहे
ण व्याप्तस्तद्विरुद्धश्चेद्हास्ति भेदग्रहः सभेदाग्रहं निवर्तयंस्तदाप्तम
ध्यासमपि निवर्तयतीति। मिथ्येति भवितुं युक्तं यद्यपि तथापीति
योजना । इदमचाकूतम् । भवेदेतदेवं यद्यचमित्यनुभवे आत्म
तत्वं प्रकाशेत, नत्वेतदस्ति । तथाहि । समस्तोपाध्यनवच्छिन्ना
नन्तानन्दचैतन्यैकरसमुदासीनमेकमद्वितीयमात्मतत्त्वं, श्रुति
(१) समुदाचरन्त्यौ , भेदेन भासमाने, वृनी, वर्तने, गयोस्ते तथा ।।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/११&oldid=334335" इत्यस्माद् प्रतिप्राप्तम्