पृष्ठम्:भामती.djvu/१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

भिज्ञानात् । विषयेभ्यस्त्वस्य विवेकः स्थवीयानेव । बुद्धिमनसोश्च करणयोरहमितिकर्तृप्रतिभासप्रख्यानान्लम्बनत्वायोगः । कृशोहमन्धोहमित्यादयश्च प्रयोगा अप्सत्यप्यभेदे कथं चिन्मच्चाः क्रोशन्तीत्यादिवौपचारिका इति युक्तंमुत्पश्यामः ॥ तस्मादिदकाराम्पदभ्यो देहेन्द्रियमनोबुद्धिविषयेभ्यो व्यावृत्तः स्फुटतराहमनुभवगम्य आत्मा संशयाभावादजिज्ञास्य इति सिद्धम्। अप्रयोजनत्वाच्च । तथाहि, संसारनिवृत्तिरपवर्ग इह प्रयोजनं विवक्षितम्। संसारश्चात्मयाथात्म्याननुभवानिमित्त आत्मयाथात्म्यज्ञानेन निवर्तनीयः । स चेदयमनादिरनादिनात्मयाथात्म्यज्ञानेन सहानुवर्तते कुतो ऽस्य निवृत्तिरंविरोधात् । कुतश्चात्मयाथात्म्याननुभवो, नाहमित्यनुभवादन्यदात्मयाथात्म्य ज्ञानमस्ति । न चाहमिति सर्वजनीनस्फुटतरानुभवसमर्थित आत्मा देहेन्द्रियादिव्यतिरिक्तः शक्य उपनिषदां सहस्रैरप्यन्यथयितुमनुभवविरोधात् । नह्यागमाः सहस्रमपि घटं पटयितुमीशते। तस्मादनुभवविरोधादुपचरितार्था एवोपनिषद इति युक्तमुत्यश्याम इत्याशयवानाशङ्का परिहरति । युष्मदस्मत्प्रत्ययगोचरयोरिति । अत्र च युवादस्मदित्यादिमिथ्याभवितुं युक्तमित्यन्तः शङ्काग्रन्थः। तथापीत्यादिपरिहारग्रन्थः । तथापीत्यभिसंबन्धाछकायां यद्यपीति पठितव्यम् । इदमस्मत्प्रत्ययगोचरयोरिति वक्तव्ये युयाङ्ग हणमत्यन्तभेदोपलक्षणार्थम् । यथा ह्यहंकारप्रतियोगी त्वंकारो नैवमिदंकार, एते वयमिमे वयमास्महइति बहुलं प्रयोगदर्शनादिति । चित्स्वभाव आत्मा विषयी, जडस्वभावा बुद्धीन्द्रियदेवहिषया विषयाः। एते हि चिदात्मानं विसिन्वन्ति अवबध्नन्ति स्वेन रूपेण निरूपणीयं कुर्वन्तीति यावत् । परस्परानध्यासहेतावत्यन्तवैलक्षण्ये दृष्टान्तस्तमः प्रकाशवदिति ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:भामती.djvu/१०&oldid=333984" इत्यस्माद् प्रतिप्राप्तम्