पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/६०

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
५८
नीतिशतके

 व्या.--अथ दुर्जनसुजनमैत्त्रीप्रकारमाह - आरम्भेति.---- पूर्वार्धपरार्धाभ्यां पूर्वाह्णापराह्णभेदेन - भिन्ना पृथग्विधा । छाया अना- तप इव - नि.---"छाया त्वनातपे कान्तौ प्रतिबिम्बार्कजाययो" रिति वैजयन्ती। आरन्मे प्रारम्भसमये - गुर्वी गुरुः वर्धिष्णुरि- त्यर्थः * 'वोतो गुणवधना 'दिति विकल्पात् ङीष् । क्रमेण काल- क्रमेण। क्षयिणी क्षयिष्णुश्च - 'जिद्दक्षी'त्यादिना इनिः। तथा । पुरा प्रारम्भे। लम्वी लघुः ह्रस्वेत्यर्थः - पूर्ववत् ङीष् । पश्चादन- न्तरम्। वृद्धिमुपैति प्राप्नोतीति भावः-अयमर्थ:----दुर्जनमैत्री पूर्वाह्णच्छायेव प्रारम्भगुर्वी क्रमेण क्षयिणी च भवति। सुजनमैत्री तावदपराह्णच्छायेवादौ लध्वी ततो वर्धिष्णुश्च भवतीति । अतोऽत्र यद्युक्तं तत्कर्तव्यं कुशलेनेति भावः ।।

मृगमीनसज्जनानां तृणजलसन्तोषविहितवृत्तीनाम् ।
लुब्धकधीवरपिशुना निष्कारणमेव वैरिणो जगति ॥ ५१ ॥

 व्या.--यदुक्तमकरुणत्वमकारणविग्रह इति तदेव प्रकटयन्नु- पसंहरति - मृगेति.--संतोषो दैववशाल्लब्धेन मनस्संतुष्टिः - तृण- जलसंतोषैर्विहिता कल्पिता - वृत्तिर्जीवनं - येषां तेषां - न तु परो- पतापोपजीविनामित्यर्थः - नि-'वृत्तिर्वर्तनजीवन' इत्यमरः । मृगाणां हरिणादीनां - मीनानां मत्स्यानां - सज्जनानां साधूनां च । लुब्धको व्याधः - धीवरो दाशः - जालिक इत्यर्थः - पिशुनस्सूचकश्व - नि- 'व्याधो मृगवधाजीवो मृगयुर्लुब्धकश्च सः।' 'कैवर्ते दाश धीव- राचि'ति चामरः। एते। जगति भुवि। निष्कारणं निर्हेतुकमेव । वैरिणो विद्वेषिणः घातुका इत्यर्थः ॥