पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३८
वैराग्यशतके

र्णाभ्यग्रा अन्यभितोऽव्ययमिति चामरः । अतएव - पुण्ये पवित्रे । महति विपुले च । विशेषणद्वयेन निस्संकोचसंचारार्हत्वं सूच्यते । ग्रामे अग्रहारे। वने अरण्ये वा - तत्रापि वानप्रस्थादीनां विद्यमानत्वा दिति भावः। सितपटेन श्वेतवस्त्रेण- छन्ना परेषां दृष्टिगोचरवाभावार्थ माच्छादिता - तथा विशिष्टाचारात् - पालिरश्रिर्यस्यास्तां - नि. 'पालि स्त्र्यश्रयङ्कपतिष्वि' ति वैजयन्ती। कपालिं भिक्षाहरणो - चितशराव मादाय गृहीत्वा। क्षुधार्तः क्षुत्पीडितः । मानी अभि - मानवान् पुरुष इति शेषः । उदरमेव - दरी गिरिगह्वरं - तस्याः । पूरणाय पूर्त्यर्थमित्यर्थः तादर्थ्ये चतुर्थी । अथवा - उदरं पूरयितु मित्यर्थः 'तुमर्थाच्च भाववचनादि' ति चतुर्थी । द्वारं द्वारं प्रति- द्वारं - गृहमेधिनामिति शेषः नित्यवीप्सयोरिति वीप्सायां द्विरूक्तिः । प्रविष्ट:भिक्षार्थमित्यर्थः । प्राणैस्सनाथस्सहितश्चेत् भिक्षाशनेन प्रागधारणतत्परस्स्याञ्चेदित्यर्थः । वरं मनाक्प्रियं नि. 'दैवाद्वृते वरश्रेष्टे त्रिपु क्लीबं मनाक्प्रियमि' त्यमरः । दिने दिने अनु दिनं प्रत्यह्मित्यर्थः यथार्थेऽव्ययीभावः । तुल्यकुल्येषु समानकु- ल्येषु समानकुलोद्भवेषु तन्मध्य इत्यर्थः । दीनः पुनः दैन्यवांश्चेन्न वरं - बन्धुमध्ये याच्ञादैन्यनीच जीवनाद्वरं भिक्षान्नेन प्राणधारणं - 'न बन्धुमध्ये धनहीनजीवन मि' ति वचनादिति भावः. अत्र य • द्यपि - 'त्यजन्त्यसून् शर्म च मानिनो वरं त्यजन्ति नत्वेकमयाचि- तव्रतमि' ति वचनान्मानिनः सर्वथा अयाचितत्वमेव मुख्यव्रतं तथाऽपि यदि क्षुधातुरत्वेन याच़्ञाप्रवृत्तिस्यात्तदा कुत्रचिदपरिक्ज्ञात- देशे श्रोत्रियगृहेषु कपालभिक्षान्नभक्षणेनोदरपूरणं कर्तव्यं - न तु