पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३७
याच्यादैन्यदूषणम्

दिति भावः * · ईषदृुरि'त्यादिना खल्प्रत्ययः । इयं जठरमुदरमेव पिठरी कुण्डी - नि. 'पिठरः स्थाल्युखा कुण्ड मि' त्यमरः के । गौरारित्वात् ङीष् - तथा च कृष्णामृतस्तवे - ' जठरापिठरीपूर्तये नर्तितासी' ति । विडम्बनं याच्ञानुकरणं । करोति याच्ञादैन्य मस्माभिरभिनाटयतीत्यर्थः । एतद्वयतिरेकेण दैन्यकारिणी न काडप्य- स्तीति भावः । 'वल्ली कठोरकुठारिकेति पाठे निशिततरपरशुरित्यर्थः॥

 रूपकालंकारः हरिणीवृत्तं - ' भवति हरिणीन्सौ म्रोस्लौगारे साम्बुधि विष्टपैरिति लक्षणान् ।।

पुण्ये ग्रामे वने वा महतिं सितपटच्छन्नपालीं कपालिं
ह्यादाय न्यायगर्भद्विजहुतहुतभुग्धूमधूम्रोपकण्ठे ।
द्वारं द्वारं प्रविष्टो वरमुदरदरीपूरणाय क्षुधार्तो
मानी प्राणैस्सनाथो न पुनरनुदिनं तुल्यकुल्येषु दीनः २३

 व्या.-अथ मानिन स्तावद्वन्धुयाच्ञाया परमन्यत्र भिक्षा- शनतात्पर्येण प्राणधारणमित्याह . पुण्य इति...-न्यायगर्भ मीमांसाशास्त्रोक्तप्रकारगर्भितं यथा तथा - यद्वा नीयन्ते ज्ञाप्यन्ते - बुभुत्सितार्था एभिरिति न्यायाः - वेदशास्त्रपुराणादयः - ते गर्भे कुक्षौ - येषां ते न्यायगर्भाः अधीताखिलविद्या इत्यर्थः । 'कुक्षि- भ्रूणार्भका गर्भा' इत्यमरः • तथाभूता - द्विजाः ब्राह्मणाः तैः • हुताः आज्यादिहविर्भिस्सुतर्पिताः - ये - हुतभुजोऽग्नय - स्तेषां धूमेन'- धूम्राणि कृष्णलोहितवर्णानि - उपकण्ठानि अन्तिकप्रदेशाः - यस्य तस्मिन् - नि. 'धूम्रधूमलौ कृष्णलोहिते'-' उपकण्ठान्तिकाभ्य-