पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/२४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२३९
याच्दैन्यदूषणम्

बन्धुजनयाच्ञाप्राणसंकटेऽपि - तस्याः परमनैच्यावहत्वादिति गूढा- भिसंधिः ॥

 स्रग्धरावृत्तं - तदुक्तं केदारेण - ' प्रश्नानां त्रयेण त्रिमुनिय तियुता स्नग्धरा कीर्तितेयम् ॥

गङ्गातरङ्गकणशीकरशीतलानि
विद्याधराध्युतिवारशिलातलानि ।
स्थानानि किं हिमवतः प्रळयं गतानि
यत्सावमानपरपिण्डरता मनुष्याः ॥ २४

 न्या.---अथ विशिष्टगत्यन्तराभाववितर्कद्वारा दूषयति-गङ्गे-ति.-गङ्गातरङ्गाणां भागीरथीकल्लोलानां - ये कणाः बिन्दवः -तेषां - शीकरैः - प्रालेवप्रायलेशैः - अथवा - कणाः स्थूलबिन्दवः-शीकराः सूक्ष्माः - तैः शीतलानि शिशिराणि - ' धनशीकरे 'ति वा पाठः - तथा सान्द्रा इत्यर्थः । विद्याधरैर्देवयोनिविशेषैरघ्युषि-तानि अधिष्ठितानि ६ गत्यर्थाकर्मके 'त्यादिना वसेः कर्मणि क्तः* वचिस्वपी'त्यादिना संप्रसारणं . अन एव - चारूणि मनोहराणि - शिलातलानि येषु तानि तथोक्तानि - * विशेषणद्वयनैतेन-परमपवित्रत्वं च सूच्यते । हिमवतः हिमाद्रेस्संबन्धीनि - स्थानानि प्रान्तप्रदेशाः प्रळयं गतानि किं नष्टानि कि?- किं शब्दोऽत्र वितर्के-नि.-'कुत्साप्रश्नवितर्केषु क्षेपे कि शब्दइष्यते 'इति शाश्वतः। ननु कुतः एवं विद्यमानेष्वत्रस्थानेषु विनाशो वितर्क्यत इत्याशङ्कय तत्र कारणमाह - यद्यस्मात्कारणान्मनुष्या जनाः । सावमानेषु याच्ञया- तिरस्काराचरणपूर्वक दत्तेषु - परपिण्डेषु परान्नेषु - रता आसक्ताः-