पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२३
स्त्रीप्रशंसा

 व्या.. -उद्वृत्त इति.---उद्वृत्तोऽत्यन्तवर्तुल: उत्पथगतश्च। एष इति पुरोवर्तिनो हस्तनिर्देशः। स्तनभारश्च । तरले लीलाविलोले - घपले चेति गम्यते। नेत्रे। चले रोचितादिविलासचञ्चले स्थिरत्व- विहीने च। भ्रूलते च । रागेण लौहित्येन मात्सर्येण - घाधिष्ठितम् - तद्भूयिष्ठमित्यर्थः - नि 'रागश्च रक्ते मात्सर्ये क्लेशादौ लोहितेषु च इत्युभयत्रापि विश्वः शाश्वतश्च । इदमिति निर्देशः । ओष्टपल्लवं अधर- किसलयं । चेत्येतानीति शेषः । व्यथां मनःपीडां। कुर्वन्तु। नामेति कुत्सायाम्। खलानां परपीडाकरणस्य स्वाभाविकत्वादिति भाव: किंतु पुष्पायुधेन कामदेवेन। स्वयं स्वहस्तेन । लिखिता। सौभाग्या- क्षरमालिका सौभाग्यव्यञ्जकपुण्यवर्ण पङ्क्तिरिव स्थितेत्युप्रेक्षा। तथा- मध्यस्था अवलग्नप्रदेशविलग्ना तटस्थाऽपि। सा रोमावलिः रोम- राजिः । केन ना हेतुना। अधिकं । तापं करोति मनस्संताप यति । विशिष्टतटस्थस्य परसंतापकरणानौचित्यादिति भावः ।

 अत्र पूर्वार्धे उद्वृत्तवादिपदार्थानां श्लेषभङ्ग्या स्वाभाव्येन च विशेषणगत्या पीडाकरणं पदार्थं प्रति हेतुत्वकथनात्पदार्थहेतुक- मेकं काव्यलिङ्गम् ; उत्तरार्धे तु तटस्थपदार्थस्य श्लेषभङ्ग्यैव केन संतापयतीत्याक्षेपपदार्थ प्रति हेतुत्वकथनादपरं च : तश्चोक्तोत्प्रेक्षया । सापेक्षितत्वात्संकीर्णम् ; तत्पूर्ववाक्यकाव्यलिङ्गेन नैरपेक्ष्यात्संसृज्यत इत्यनयोः सजातीयसंसृष्टिः : एतेन स्तनभारादेर्लोकोत्तरलावण्य- संपन्नत्वमत्यन्तजनसम्मोहत्येन सूच्यते ॥

शार्दूलविक्रीडितं वृत्तम् ।।