पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१२६

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२४
शृङ्गारशतके

मुखेन चंद्रकान्तेन महानीलैः शिरोरुहैः ।
कराभ्यां पद्मरागाभ्यां रेजे रत्नमयीव सा॥ १६

 व्या.--मुखेन इति.----चन्द्रकान्तेन इन्दुसुन्दरेण चन्द्रका- न्तमणिरूपेण चेति गम्यते । मुखेन छ । महानीलैरतिमेषकैः सिंह- लद्वीपसंभवेन्द्रनीलैश्च - शिरोरुहः कुन्तलैश्च - ' सिंहलस्याकरोद्भूता महानीलास्तु ते स्मृताः' इति भगवानगस्त्यः । तथा पद्मस्य राग इव रागो ययोस्तौ ताभ्यां पद्मराग रूपाभ्यां च। कराभ्याम् । सा सुन्दरी । रत्नमयी रत्नरूपेव। रेजे । ' तत् प्रकृतवचने मयट्'

  • 'टिढ्डाणञ्' - इत्यादिना ङीप ॥ अनुष्टुप ।।

गुरुणा स्तनमारेग मुखचन्द्रेण भास्वता ।
शनैश्चराम्यां पादाभ्यां रेजे ग्रहमयीव सा ।। १७

 व्या.--गुरुणेति.---गुरुणा दुर्भरेण गोपतिरूपेण च - नि. "गुरुस्तु गीष्पती श्रेष्ठे गुरौ पितरि दुर्भरे' इत्युभयत्रापि शब्दार्णवे। स्तनभारेण च । भास्वता प्रकाशवता भास्करेण च नि. 'भास्वान् - भास्करसूर्ययोः' इति विश्वः । मुखमेव चन्द्र स्तेन च -- शनैश्च - राभ्यां मन्दगमनाभ्यां शनैश्चराख्यग्रहाभ्यां च । पादाभ्यां च सा ग्रहमयीव रेजे । प्रक्रियातु पूर्ववत् ॥ अत्र श्लोकद्वयेऽपि श्लेषमहिम्ना रत्नमयत्वग्रहमयत्वोत्प्रेक्षणात् श्लेषसकोणेयमुत्प्रेक्षा ; तया चास्या लोकोत्तराकाररूपलावण्य- . सौन्दर्यकान्तिविशेषभाग्यसौभाग्यादि सकलकल्याणगुणाभिरामत्वं . गम्यते; एतच्च मदीयशृङ्गारशृङ्गाटके रुक्मिणीवल्लभव्याख्याने 'निधि- मयीग्रहमयी' इत्यत्र विस्तरेण प्रपञ्चितमितीहोपरम्यते ॥ अनुष्टुप् ॥