पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१२४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति
१२२
शृङ्गारशतके

सति प्रदीपे सत्यग्नौ सत्सु तारावीन्दुषु ।
विना में मृगशाबाक्ष्या तमो भूत मिदं जगत ॥ १४

 व्या.---अथ विंशतिसमाप्तिकामिन्युद्देशेनोक्तान्यत्यन्तानु - रागिणां प्रशंसावचनान्याह-सतीति.-प्रदीपे अर्थप्रकाशदीप्तार्चिषि। सति विद्यमानेऽपि । अग्नौ तथा भूते वह्नौ। घ सत्यपि। 'सत्यर्के' इति पाठे त्रिलोकप्रकाशके सूर्ये । सत्यपि। तथा तारामणीन्दुषु तिमिर- निरासकत्वेन प्रसिद्धेषु नक्षत्रपद्मरागादिमाणिक्यचन्द्रेषु। सत्स्वपि । तया। प्रसिद्धया पूर्वानुभूतया वा। मृगशाबस्य बालहरिणस्येवा- क्षिणी यस्यास्तया। प्रियतमया विना 'बहुब्रीही सक्थ्यक्ष्णोः स्वाङ्गात्षच्' । 'षिद्गौरादिभ्यश्च' इति ङीप - इदं जगन्मे मम । तमोभूतमन्धकारमयम्। लक्ष्यत इति शेषः । तस्या एवं मम नयन- ज्योतिष्ट्वादिति भावः.

 अत्रान्धकारनिराकरणसमर्थत्वेन प्रसिद्धे प्रदीपादिकारण- समुदाये सत्यपि तन्निरासरूपकार्यानुत्थानाद्विशेषोक्तिरलंकारः - 'त- त्सामग्रयामनुत्पत्तिर्विशेषोक्तिर्निगद्यते' इति लक्षणात् ; तथा प्रदी- पादिसद्भावेऽपि तमोभूतत्वमिति विरोधश्च व्यज्यते ; तेन चास्य महामोहान्धत्वं वस्तु गम्यत इत्यलंकारेण वस्तुध्वनिः. वृत्तं पूर्ववत् .

उद्वृत्तः स्तनभार एव तरळे नेत्रे चले भ्रूलते
रागाधिष्ठित ओष्ठपल्लवमिदं कुर्वन्तु नाम व्यथाम् ।
सौभाग्याक्षरमालिकेव लिखिता पुष्पायुधेन स्वयं
मध्यस्थस्याऽपि करोति तापमधिकं रोमावलिः केनसा ॥१५