पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
मूर्खपद्धतिः

प्यसुप' इतीकारः। सलिलं जलम्। पिबेत् पातुं शक्नुयात् - 'पाघ्राध्मे 'त्यादिना पिबतेः पिबादेशः । तथा पर्यटन तत्र तत्र चतान्तरे संश्चरन् । कदाचित् कस्मिंश्चित समये । शशस्य मृगविशे- षस्य - विषाणं शृङ्गमपि - वाङ्मात्रगोचरमपीति भावः। आसादये- दधिगन्तुं शक्नुयात्। (न तु प्रतिनिटेत्यादि पूर्ववत् ।) सिकतातैल- लाभादिवदत्यन्तदुर्घटं मूर्खचित्तसमाधानमिति भावः ; मृगवृष्णिका- जलशशविषाणयोर्गगनारविन्दवन्ध्यापुत्रवदत्यन्तासंगतत्वमुक्तं सुरेश्वर- वार्तिक----

"मृगतृष्णाम्भसि स्नातः खपुष्पकृतशेखरः।
एष वन्ध्यासुतो याति शशशृङ्गधनुर्धरः ॥"

इति पद्यद्वयेऽप्यस्मिन मणिमुद्धरेदिल्यादी शकि लिञ्चे'ति शक्यार्थे विधिलिङ्; तथा अपि शब्दः समुञ्चये। “संभावनायां पेत्' तदनुवाद इति विवेकः ; उभयथाऽप्यनुशासनसंभवात् । प्रकृतार्थोप- पत्तेश्च ; यथाहामरसिंहः “गर्हासमुच्चयप्रश्नशङ्कासंभावनास्वपी"ति; अत्र “ समुद्रमपि लङ्घयेदि " त्युदाजहार स्वामी ।

 अन मण्युद्धरणाद्यसंबन्धेऽपि तत्संबन्धाभिधाना दतिशयोक्तिः ।

  श्लोकद्वयमेतत् पृथ्वीवृत्तम् : तदुक्तं केदारेण वृत्तरत्नाकरे " जसौ जसयलावसुग्रहयतिश्च पृथ्वी गुरु"रिति। अत एव "सिक- तासुतैल 'मित्यत्र। - 'मृगतृष्णिकासु सलिल'मित्यत्र 'मूर्खजनचित्त' मित्यत्र च। अष्टमवणे विहितस्य विच्छेदस्याभावाद्यतिभ्रष्टंनाम दोषः । इममेव केचिदपस्थयर्ति वदन्ति ; तदुक्तं विद्यानाथेन " यत्र- स्थाने यतिभ्रंशस्तद्यतिभ्रष्टमुच्यत" इति ॥