पृष्ठम्:भर्तृहरिसुभाशितम्.pdf/१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
नीतिशतके

पुष्पेण तुल्यं पुष्पवत् - पुष्पस्रजमिवेत्यर्थः - " तेन तुल्यं क्रियाचे- द्वति रितिवतिप्रत्ययः। धारयेत् धारयितुं शक्नुयात् - मणिमन्त्रादि- साधनेनेति भावः । किं तु प्रतिनिविष्टमभिनिवेशाक्रान्तं - दुराग्रहा- विष्टमति यावत् - मूर्खजनस्य दुर्विदग्धस्य - चित्तम् । नाराधयेत् आराधयितुं समाधातुं न शक्नयात् - उपायालाभादिति भावः। मकर- दंष्ट्रान्तरस्थमण्युद्धरणादिप्रायं मूर्खजनचित्तसमाराधनमिति श्लोकार्थः ॥

लभेत सिकतासु तैलमपि यत्नतः पीडयन्
पिबेच्च मृगतृष्णिकासु सलिलं पिपासार्दितः ।
कदाचिदपि पर्यटन् शशविषाणमासादये-
न्नतु प्रतिनिविष्टमूर्खजनचित्तमाराधयेत् ॥ ५ ॥

 व्या।.--एवं दुर्लभवस्तुसाधने दुष्करकार्यकरणे व संभाव- नया शक्तिरुता । न मूर्खचित्तप्रसाधने : इदानीमत्यन्तदुर्लभवस्त्वपि प्रसाधयन्न तु तचित्तमित्याह.-- लभतेति.----यत्नतः कुतश्चित्प्रयत्नात् - पञ्चम्यास्तसिल । पीडयन् केनचिद्यन्त्रेण सम्मर्दयन् । सिकतासु वालुकास्वपि - कालवयेऽप्यन्तस्स्नेहानधिकरणभूतास्वपीति भावः । तैलं स्नेहम्। लभेत लब्धुं शक्नुयात् - 'स्नेहनेतेल 'मित्यनुशासनान्नात्र तिलसंबन्धित्वाशङ्काकलङ्कावतार इति द्रष्टव्यम् । तथा पातुमिच्छा पिपासा - 'पा पान' इत्यस्माद्धातोः सन्नन्तात् स्त्रियामप्रत्यये टाप् - " तया अदितः पीडितः तृष्णातुरः सन्नित्यर्थः। मृगतृष्णिकासु च मरुमरीचिकास्वपि वा - जलभ्रममात्रदायिनीष्वपीति भावः - मृग- तृष्णाशब्दात स्वार्थे कप्रत्यये - 'प्रत्ययस्थात् कात् पूर्वस्यात इदा-